________________
उत्तराध्ययनसूत्रम् ॥१२८॥
aaaaa
॥ ३५ ॥ कुतो दीक्षादानादनु त्वं नाथो जातो न पूर्वमित्याह
मूलम् - अप्पा नई वेअरणी, अप्पा में कूडसामली । अप्पा कामदुहा घेणू, अप्पा मे नंदणं वर्णं ॥३६॥ व्या० - आत्मेति वाक्यस्य सावधारणत्वादात्मैव नदी वैतरणी, 'नरकसम्बन्धिनी । श्रात्मन एवोद्धतस्य तद्धेतुत्वात् । अत एवात्मैव मे, कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली, तथा आत्मैव कामदुघा धेनुरिव धेनुः, इयं च रूढित उक्ता, एतदौपम्यं च तस्य स्वर्गापवर्गादिसमीहितावाप्तिहेतुत्वात् । श्रात्मैव मे नन्दनं वनं, एतदौपम्यं चास्यैव चित्ताल्हादहेतुत्वात् ॥ ३६ ॥ मूलम् - अप्पा कत्ता विकत्ता य, दुहाण य सुहाग य । अप्पा मित्तममित्तं च, दप्पट्टि सुपट्ठि ॥३७॥
व्या० - आत्मैव कर्त्ता दुःखानां सुखानां चेति योगः, 'विकरिता' च विक्षेपक आत्मैव तेषां अत एवात्मैव मित्रममित्रश्थ, कीदृशः सन् १ 'दुःप्रस्थितो' दुराचारः, 'सुप्रस्थितः ' सदनुष्ठानः । दुःप्रस्थितो ह्यात्मा समग्रदुःखहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः । तथा च प्रव्रज्यायामेव सुप्रस्थितत्वात् स्वस्यान्येषां च योगक्षेमकरणक्षमत्वात् मम नाथत्वमिति सूत्रद्वयार्थः ॥ ३७ ॥ पुनरन्यथाऽनाथत्वमाह -
मूलम्-इमा हु अन्नावि अणाहया निवा !, तमेगचित्तो निहु सुगाहि । निर्ऋटधम्मं लहिआरण वी जहा, सीदंति एगे बहु कायरा नरा ॥ ३८ ॥
व्या० - ' इमत्ति' इयं, हुः पूत, 'अन्या' अपरा 'अपि:' समुच्चये, अनाथता, यदभावादहं नाथो जात इति भावः । 'वित्ति'
अध्य०२०
॥ १२८ ॥