________________
उत्तराध्य
यनसूत्रम् ।। १२५।।
व्या० – पुराणपुराणि भिनत्ति स्वगुणैरसमानत्वात्स्वतो भेदेन व्यवस्थापयतीति पुराणपुर भेदिनी ॥ १८ ॥
मूलम् — पढमे वये महाराय !, अउला मे अच्छिवेणा । अहोत्था विउलो दाहो, सव्वगत्तेसु पत्थिवा ! १६ व्या० – प्रथमे वयसीह यौवने अतुला मे अक्षिवेदना 'अहोत्यत्ति' भूत् ॥ १६ ॥
मूलम् — सत्थं जहा परमतिक्खं, सरीरविवरंतरे। वीलिज्ज अरी कुद्धो, एव मे अच्छिणा ॥२०॥
व्या० - 'शरीरेत्यादि' शरीरविवराणि कर्णधारणादीनि तेषामन्तरं मध्यं शरीरविवरान्तरं तस्मिन् पीडयेत् समन्तादवगाहयेत् ॥ २० ॥ मूलम् - तिचं मे अंतरिच्छं च, उत्तिमंगं च पीडई । इंदासणीसमा घोरा, वेणा परमदारुणा ॥२१॥
व्या० - 'त्रिकं' कटिप्रदेशं मे, अंतरामध्ये इच्छां चाभिमतवस्त्वभिलाषं न केवलं बहित्रिकाद्येवेति भावः, 'पीडयति' बाधते वेदनेति | सम्बन्धः, इन्द्राशनिरिन्द्रवज्रं तत्समातिदाहोत्पादकत्वादिति भावः । 'घोरा' ऽन्येषामपि भयजनिका परमदारुणाऽतीवदुःखोत्पादिका ।। २१ ।। मूलम् - उट्टिया मे आयरिया, विज्जामंततिगिच्छगा । अबीया सत्थकुसला, मंतमूलविसारया ॥२२॥
व्या॰—‘उपस्थिताः' प्रतिकारम्प्रत्युद्यता 'आचार्याः' प्राणाचार्याः वैद्या इत्यर्थः, विद्यामंत्राभ्यां चिकित्सका व्याधिप्रतिकारकर्त्तारो विद्यामंत्र चिकित्सकाः, “अबीअत्ति" 'अद्वितीया' अनन्यसमानाः ॥ २२ ॥
मूलम् — ते मे तिगिच्छं कुव्वंति चाउप्पार्यं जहाहि । न य दुक्खा विमोअंति, एसा मज्झ अणाहया २३
व्या०—–“ चाउप्पायंति” ‘‘चतुष्पादां' भिषग्भेषजातुरप्रतिचारकात्मकभागचतुष्करूपां, “जहाहिअंति " यथाहितं हितानतिक्रमेण यथा
अध्य०२०
॥१२५॥