________________
॥१२३॥
उत्तराध्ययनसूत्रम् ॥१२३॥
॥
व्या०-अनाथोऽस्म्यहं महाराज ! किमिति ? यतो 'नाथो' योगक्षेमकारी मम न विद्यते । तथा 'अनुकम्पकं अनुकंपाकरं "सुहिति" सहदं वा कंचिद् 'नामिसमेमि' नामिसङ्गच्छामि न प्राप्नोमि, अहं इत्यनेनार्थेन तारुण्येऽपि प्रवजित इति भावः ॥६॥ एवं मुनिनोक्तेमूलम्-तो सो पहसिओ राया, सेणिओ मगहाहियो । एवं ते इडिमंतस्स, कहं नाहो न विजइ ? ॥१०॥
व्या०–एवं दृश्यमानप्रकारेण 'ऋद्धिमतो' विस्मापकवर्णादिसम्पत्तिमतः कथं नाथो न विद्यते ? वर्तमाननिर्देशः सर्वत्र तत्कालापेक्षया ज्ञेयः ॥ १० ॥ यदि चानायतेव व्रताङ्गीकारहेतुस्तर्हिमूलम्-होमि नाहो भयंताणं, भोगे भुजाहि संजया !। मित्तनाइपरिखुडो, माणुस्सं खु सुदुल्लहं ॥११॥ व्या०–भवामि नाथो भदंतानां, मयि च नाथे सति मित्राणि ज्ञातयो भोगाश्च सुलभा एघेत्याशयेनाह-भोगे इत्यादीति ॥११॥ मुनिराह
मूलम-अप्पणावि अण्णाहोऽसि, सेणिआ ! मगहाहिवा !।
- अप्पणा अणाहो संतो, कहं मे नाहो भविस्ससि ? ॥ १२॥ व्या०-[सुगमैव ] ॥ १२ ॥ एवं मुनिनोक्तेमलम्-एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुअपुव्व, साहुणा विम्हयन्निो ॥१३॥
"च्या०-इहैवमचरघटना, स नरेन्द्रः श्रेणिको "विम्हयन्निोत्ति" पूर्वमपि रूपादिविषयविस्मयान्वितः सन् , एवमुक्तनित्या वचनमश्रतपूर्व साधुना उक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वा प्रोवाचेति शेषः ॥१३॥