SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ उतराध्य यनसूत्रम् ॥ ११६ ॥ सूत्रस्य वासीचन्दनव्यापारकपुरुषयोः कल्पस्तुल्यो यः स तथा तत्र वासी सूत्रधारस्य दारुतक्षणोपकरणं । 'अशने' श्राहारे 'अनशने च' तदभावे, कल्प इत्यत्रापि योज्यम् ॥६२॥ मूलम् - अप्पसत्थेहिं दारेहिं, सव्वओ पिही आसवो अज्झष्पज्झाणजोगेहिं, पसत्थदमसासणो ॥६३॥ व्या० – अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः 'सर्वतः ' सर्वेभ्यो निवृत्त इति गम्यते, अत एव 'पिहिताश्रवो' रुद्धकर्मागमः । कैरयमीदृशोऽभूदित्याह - "अज्झप्पेत्यादि " अध्यात्म आत्मनि ये ध्यानयोगाः शुभध्यानव्यापारास्तैः प्रशस्तो दमः - उपशमः शाशनं च जिनागमात्मकं यस्य स तथेति ॥ ६३ ॥ मूलम् - एवं नाणेण चरणेणं, दंसणेण तवेरण य । भावसाहि अ सुद्धाहिं, सम्मं भाविन्तु अयं ॥६४॥ "भावणाहिंत्ति " भावनाभित्र तविषयाभिरनित्यतादिभिर्वा, शुद्धाभिर्निनिंदानाभिः सम्यग् 'भावयित्वा' तन्मयतां नीत्वा श्रात्मानम् ॥ मूलम् - बहुआणि उ वासाखि, सामण्णमणुपालिया । मासिएण उ भतेणं, सिद्धिं पत्तो अणुत्तरं ॥६५॥ व्या०—“ मासिएण उत्ति” मासिकेन, तुः पूतौं, “भत्तेगंति " भीमो भीमसेन इतिन्यायाद्भक्तेन भक्तप्रत्याख्यानेन मासिकानशनेनेत्यर्थः । इति सूत्रष्टकार्थः ॥ ६५॥ अथोपसंहारपूर्वमुपदिशमाह - मूलम् - एवं करंति संबुद्धा, पंडिया पविचक्खणा । विमिति भोगेसु, मियापुत्ते जहामिसी ॥६६॥ व्या० – “जहामिसीत्ति " यथा ऋषिर्मकारोऽलाक्षणिकः ॥ ६६ ॥ पुनः प्रकारान्तरेणोपदेशमाह- अध्य०१६ ॥ ११६॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy