SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य- व्याख्या-तयोः पुत्रो क्लश्रीरिति मातापितृकृतनाम्ना, मृगापुत्र इति च लोके विश्रुतः, अम्बापित्रोः 'दयितो' वैल्लभः, युवराजो, अध्य० १६ यनसूत्रम् दमिनामुपशमवतामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतद्विशेषणम् ॥ २ ॥ | ॥१०॥ ॥१०॥का मूलम्—नंदणे सो उ पासाए, कीलए सह इस्थिहिं । देवो दोगुदगो चेव, निच्चं मुंइंअमाणसो ॥३॥ व्याख्या-'नन्दने' लक्षणोपेततया समृद्धिजनके 'स' मृगापुत्रः 'तुः पूरणे प्रासादे, क्रीडति सह स्त्रीभिः । क इव ? दोगुन्दको देव | इव, चः पूत्तौं । दोगुन्दकाश्च त्रायस्त्रिंशास्तथा च वृद्धाः-"त्रायस्त्रिंशा देवा नित्यं भोगपरायणा दोगुन्दका इति भण्यन्त इति" तथा नित्यं ।। मुदितमानसः ॥ ३ ॥ मूलम्-मणिरयणकुट्टिमतले, पासायालोअणे ठिओ। आलोएइ नयरस्स, चउक्कतिगचच्चरे ॥४॥ व्याख्या-स चाऽन्यदा मणयः-चन्द्रकान्तायाः, रत्नानि-कर्केतनादीनि. तैरुपलक्षितं कुद्धिमतलं यत्र तत्तथा तस्मिन्, 'प्रासादालोकने' प्रासादगवाक्षे स्थितः, आलोकते नगरस्य चतुष्कत्रिकचत्वराणीति सूत्रचतुष्कार्थः ॥ ४ ॥ ततो यदभूत्तदाह- . मुलम्-अह तत्थ अइच्छंतं, पासई समणसंजयं । तकनिअमसंजमधरं, सीलड्डू गुणागरं ॥ ५ ॥ व्याख्या-अथानन्तरं 'तत्र' तेषु त्रिकादिषु अतिक्रामन्तं पश्यति श्रमणसंयतं,श्रमणः शास्यादिरपि स्यादिति संयतग्रहवं, तपश्चानशनादि नियमाश्च-द्रव्याघभिग्रहाः संयमश्च प्रतीतः तान् धारयतीति तोनियमसंयमवरस्तम् । अत एव शीलमष्टादशसहस्ररूपं तेनाढ्यं शीलाढ्य, तत एव गुणानां ज्ञानादीनामाकर इव गुणाकरस्तम् ॥५॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy