________________
पनसूत्रम्
उत्तराध्य- वा इत्थमभिधानं । तरिष्यन्तनागता भाविनो भव्या भवार्णवमिति शेषः ॥ ५३ ॥ यतश्चैवमतः
अध्य०१८ मूलम्-कहं धीरे अहेऊहिं, अत्ताणं परिआवसे । सव्वसंगविणिमुक्के, सिद्ध हवइ नीरएति बेमि ॥५४॥ ॥६॥ व्याख्या-कथं धीरोऽहेतुभिः क्रियादिवादिकल्पितकुयुक्तिभिरात्मानं स्वं पर्यावासयेत् ? कथमात्मानं अहेत्वावासं कुर्यान्नैव कुर्यादि
त्यर्थः । अथात्मनि कुहेतूनामवासने किं फलमित्याह सर्वे सङ्गा द्रव्यतो द्रव्यस्वजनादयो भावतस्तु मिथ्यात्वरूपत्वादेत एव क्रियादिवादास्तैर्विनिमुक्तो विरहितः सर्वसङ्गविनिमुक्तः सन् सिद्धो भवति 'नीरजा' निष्कर्मा । तदनेनाऽहेतुत्यागस्य सम्यग्ज्ञानहेतुत्वात् सिद्धत्वं फलमुक्तमिति सूत्रत्रयार्थः ॥५४॥ इत्थमनुशास्य विजह क्षत्रिययतिः, संजयोपि चिरं विहृत्य प्राप्तकेवलः सिद्ध इति ब्रवीमीति प्राग्वत् ॥
॥अथ एकोनविंशमध्ययनम् ॥ ॥अहम् ॥ उक्तमष्टादशमध्ययनं, अथकोनविंशं मृगापुत्रीयमारम्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययने भोगर्द्धित्याग उक्तः, क | स चाप्रतिकर्मतया प्रशस्यतरः स्यादितीहाऽप्रतिकर्मतोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम्
मूलम्-सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए । राया बलभद्दत्ति, मिश्रा तस्सग्गमाहिसी ॥१॥ ___ व्याख्या-'सुग्रीवे' सुग्रीवाह, काननानि-वृहद्वताश्रयाणि वनानि उद्यानानि-क्रीडावनानि तैः शोभिते । राजा बलभद्र इति नाम्ना,
मृगा नाम्नी तस्य 'अग्रमहिषी' प्रधानपनी ॥१॥ Ma मूलम्-तेसी पुत्ते बलसिरी, मिश्रापुत्तेत्ति विस्सुए । अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥
सासिल