SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ यनसूत्रम् । * करांलं ते महर्षयः । मुभिक्षसम्भवे भूयः पाटलीपुत्रमाययुः ॥ २२९॥ गुणनाभावतस्तेषां सिद्धान्तो विस्मृतस्तदा । शास्त्रे स्वा-18 उचराभ्य-मिनि सुन्दयाँ न स्थैर्य जायते यतः ।। २३० ॥ सारं सारं परावत्यकादशाङ्गी यतिवजैः। यत्नत्तो मेलिता यस्मादनिर्विपणं बच्च०१ म॥९॥ श्रियः पदम् ॥ २३१ ॥ तदा नेपालदेशेऽभूद्, द्वादशाङ्गधरो गुरुः । भद्रबाहुधृतमहा-प्राणध्यानो युगोत्तमः॥ २३२ ॥ सङ्घा- IM टकेन सङ्घस्तं, पूर्वाण्यध्यायपयेत्यवक् । पत्तनेऽत्र समागत्य, स्थूलभद्रादिकान मुनीन् ॥ २३३॥ सोऽप्युवाच महाप्राणं, ध्यानमा रब्धमस्ति यत् । साध्यं द्वादशभिव-नागमिष्याम्यहं ततः ॥२३४॥ महाप्राणे हि निष्पन्ने, कार्ये कसिंश्चिदागते । सर्वपूर्वाणि गुण्यट्रान्ते, सूत्रार्थभ्यां मुहूर्ततः ॥ २३५ ॥ तद्वचस्तो मुनी गत्वा, सङ्घस्याशंस तामथ । सङ्घोऽप्यपरमाहूयादिदेशेति मुनिद्वयम् ॥ २३६ ॥ | गत्वा वाच्यः स आचार्यो, यः सङ्घस्य शासनम् । न करोति भवेत्तस्य, दण्डः क इति शंस नः ॥ २३७ ॥ सङ्घबाह्यः स कर्तव्य, इति वक्ति यदा स तु । तर्हि तद्दण्डयोग्योसीत्याचार्यों वाच्य उच्चकैः ॥ २३८ ॥ ताभ्यां गत्वा तथैवोक्त, आचार्योऽप्येवमूचिवान् । नैवं करोतु भगवान् , सङ्घः किन्तु करोत्वदः ॥२३९॥ शिष्यान् प्रेषयतु प्राज्ञान , पाठयाम्यशठो यथा । श्रीजिनाज्ञैव सयाज्ञा मान्या मानवतामपि ॥ २४ ॥ तत्रैकां वाचनां दास्ये, भिक्षाचर्यात आगतः। तिसृषु कालवेलासु, तिस्रोऽन्या वाचनास्तथा | ॥ २४१ ॥ सायाप्रतिक्रमणे, जाते तिस्रोऽपराः पुनः । सेत्स्यत्येवं सङ्ककार्य मत्कार्यस्याविवाधया ॥२४२॥ एवं सप्ताहि दास्येऽहं, वाचनाः शिष्यसंहतेः । ध्यानमध्येऽपि येनोक्तः, परार्थः स्वार्थतोऽधिकः ।। २४३ ॥ ध्यानस्य तस्य पर्यन्ते, वाचनाः सकलं दिनम् । प्रदास्यामीत्युदित्वाऽसौ, व्यसूजत्तन्मुनिद्वयम् ॥ २४४ ॥ ताभ्यामेत्य तथाख्याते, श्रीसकोऽपि प्रसादभाक् प्राहिणोत्स्थूल । भयङ्करम् । २ साधुसमुहैः । ३ अनुत्साहरहितत्वं । ४ मुनियुग्मेन । E-% 25E
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy