________________
उचराध्य यनसूत्रम्
॥९१॥
विद्धा राशिव न क्षतः || २११ ॥ ततः स ऊचे तुष्टोऽस्मि, दुष्करेणामुना तव । याचस्व यन्ममाऽऽयत्तं ददामि तदहं ध्रुवम् ॥ २१२|| सोवाच किं मयाऽकारि, दुष्करं येन रञ्जितः । इदमप्यधिकं नास्मा-त्किमभ्यासेन दुष्करम् || २१३ || किश्वाऽऽम्रलुम्बीछेदोऽयं नृत्तं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो, यच्चक्रे तत्तु दुष्करम् || २१४ ॥ अयुक्त द्वादशाब्दानि, भोगान्यत्र समं मया । तत्रैव चित्रशालायामस्थात्सोऽस्खण्डितव्रतः ।। २१५ ।। दुग्धं नकुलसञ्चारादिव स्त्रीणां प्रचारतः । योगिनां दुष्यते चेतः, स्थूलभद्रमुनिं विना ॥ २१६ ॥ दिनमेकमपि स्थातुं, कोऽलं स्त्रीसन्निधौ तथा । चतुर्मासीं यथातिष्ठन्स्थूलभद्रोऽक्षतत्रतः ॥ २१७ || आहारः षड्सश्चित्रशालावा सोऽङ्गनान्तिके । अप्येकं व्रतलोपायान्यस्य लोहतनोरपि ॥२१८॥ विलीयन्ते धातुमयाः, पार्श्वे वह्नेरिव खियाः । स तु वज्रमयो मन्ये स्थूलभद्रमहामुनिः ॥ २१९ ॥ स्थूलभद्रं महासत्रं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता मुद्रेव मुखे वर्णयितुं परम् ॥ २२० ॥ रथिकोऽप्यथ पप्रच्छ य एव वर्ण्यते त्वया । को नाम स्थूलभद्रोऽयं महासच्चशिरोमणिः || २२१ ॥ साप्यूचे शकटालस्य, नन्दभूपालमन्त्रिणः । तनयः स्थूलभद्रोऽयं, तवाग्रे वर्णयामि यम् ॥ २२२ ॥ तच्छ्रुत्वा सोऽपि सम्भ्रान्त, इत्युवाच कृताञ्जलिः । एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः ॥ २२३ ॥ संविग्नं साऽथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुद्विर्मोहनिद्रा मपास्य सः ॥ २२४ ॥ प्रतिबुद्धं च तं बुद्धा, साख्यनिजमभिग्रहम् । तच्छ्रुत्वा विस्मयोत्फुल्ल - लोचनः सोऽब्रवीदिदम् ॥ ॥ २२५ ॥ बोधितोऽहं त्वया भद्रे, स्थूलभद्रगुणोक्तिभिः । यास्यामि तस्य पन्थानं, भवत्यैवाऽय दर्शितम् ॥ २२६ ॥ ते भद्रे, पालय स्वमभिग्रहम् । उक्तवैवं सद्गुरोः पार्श्वे, गत्वा दीक्षां स आददे || २२७ |
कल्याणमस्तु
तस्मिन्नवसरेऽथाभूदुष्कालो द्वादशाब्दिकः । जग्मुर्मुमुक्षेवस्तेन, तटे बांर्द्धरितस्ततः ॥ २२८ ॥ तत्रातिक्रम्य दुष्कालं,
१ साधवः । २ समुद्रस्य ।
अध्य०२
| ९१ ॥