SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ उचराध्ययनसत्रम् ॥८९॥ अध्या ॥९॥ ॥१८१॥ त्वदाज्ञाविवंशश्चाई, धनमध्यानये द्रुतम् ।। निवेदयसि चेन्मां, तत्प्राप्तिस्थानमुत्तमम् ॥ १८२॥ ततो बोधयितुं सा तं, प्रोचे नेपालभूपतिः ।। नव्यसाधोर्लक्षमूल्यं, प्रदत्ते रत्नकम्बलम् ॥१८३॥ ततस्त्वं तत्र गत्वाऽऽशु, तं समानय मत्कृते ॥ श्रुत्वेति | सोऽप्यकालेऽपि, नेपालं प्रति चेलिवान् ॥ १८४ ॥ तत्र गत्वा धराधीशा-द्रनकम्बलमाप्य च ॥ ववले स मुनिः सद्यो, वेश्यां ध्यायन्मनोन्तरे ॥ १८५ ।। तत्र मार्गे स्थितानां च, दस्यूनां शकुनस्तदा ।। आयाति लक्षमित्यूचे, तदनासीच दस्युराट् ॥ १८६ ॥ किमायातीत्यपृच्छच्च, वृक्षारूढं चरं ततः ॥ सोऽप्याख्यद्भिक्षुमेवैकं, वीक्षे कमपि नाऽपरम् ॥ १८७॥ अथ तत्रागतं साधु, धृत्वा चौरा व्यलोकयन् ॥ अपश्यंतश्च किमपि, द्रव्यं ते मुमुचुमुनिम् ॥ १८८ ॥ शकुन: पुनरित्याख्य-द्याति लक्षमिदं पुरः॥ ततो विधृत्य तं साधु-मभ्यधादिति चौरराट् ॥ १८९॥ वयं तवाभयं दद्यः, तथ्यं वद किमस्ति ? ते ॥ ततो यति गौ यूयं, सत्यं शृणुत दस्यवः! ॥ १९ ॥ अस्ति क्षिप्तो वंशमध्ये, वेश्यार्थ रत्नकम्बलः ॥ मत्पार्श्व इति तेनोक्ते-ऽमुचत्तं चौरराट् मुनिम् ॥ १९१ ॥ अथागत्य स| कोशायै, रत्नकम्बलमापर्यत् ॥ गृहनिर्धमने सापि, तं निचिक्षेप पहिले ॥ १९२ ॥ विषण्णो वीक्ष्य तत्साधु-रित्यूचे सुन्दरि! त्वया ॥ महामूल्योऽप्यसौ पङ्के, किंक्षिप्तो रत्नकम्बलः ॥ १९३ ॥ कोशा शशंस यद्येत-जानासि त्वं तदा कथम् ॥ आत्मानं गुणरत्नाढयं, क्षिपसि ? श्वभ्रंकर्दमे ॥ १९४॥ किञ्च रत्नत्रयमिदं, भुवनत्रयदुर्लभम् ॥ मदने खालजम्बाल-कल्पे क्षिपसि किं मुधा ? ॥ ॥ १९५ ॥ तछुत्वोत्पन्नवैराग्यः, कोशामिति जगौ यतिः । संसाराब्धौ पतत्साधु, रक्षितोऽहं त्वयाऽनधे ! ॥ १९६ ॥ अतिचारो 1 अधीनः । ५ चौराणाम् । ३ जलनिर्गमनद्वारे 'स्वाळ' इति भा० । " पङ्कः अस्ति अस्य इति पछिलः । ५ नरक एव कर्दमः ( प ) तस्मिन् । ६ खालपङ्कयो ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy