________________
उत्तराष्ययनसूत्रम्
॥८८॥
यन्त्यम् ! || ९६५ ॥ नित्यं षड्रसमाहारं, मुक्त्वा तत्र स्थितोऽप्यऽसौ ॥ गुरुभिः कथ्यते साधुः, कृतदुष्करदुष्करः ! ॥ १६६ ॥ वयमप्यैषदन्दे त लास्यामोऽमुमभिग्रहम् । ध्यायन्त इति ते मासान्, कष्टादष्टाऽत्यत्राहयन् ! ॥ १६७ ॥ वर्षाकालेऽथ सम्प्राप्ते, मानी सिंहगुहामुनिः ॥ सम्भूतविजयाचार्यान्, प्रणम्येति व्यजिज्ञपत् ।। १६८ ।। सर्वदा पसाहार - भोजी कोशानिकेतने ॥ स्थास्याम्यहं चतुर्मासीं स्थूलभद्र इव प्रभो ! ।। १६९ ।। अयं हि स्थूलभद्रस्य, स्पर्द्धयाऽङ्गीकरोत्यदः । विमृश्येत्युपयोगं च दचैवं सूरिरब्रवीत् ।। १७० ।। वत्सा भिग्रहमेनं मा कार्षीर्दुष्कर दुष्करम् ।। क्षमो हि स्थूलभद्रोऽमुं, निर्वोढुं नाऽपरः पुनः । ॥ १७१ ॥ प स्वयम्भूरमण-स्तरीतुं शक्यते सुखम् ।। अयं त्वभिग्रहो धर्तुं दुष्करेभ्योऽपि दुष्करः ! ।। १७२ ।। दुष्करोऽप्यस्ति नाऽयं मे, क्व नु दुष्करदुष्करः १ ॥ करिष्याम्येव तदसु - मित्यूचे स पुनर्गुरून् ॥ १७३ ॥ अथोचे सूरिरेतस्मादभिग्रहकदाग्रहात् । वत्स ! ते भाविनी लाभ-मिच्छतो मूलविच्युतिः' ! || १७४ ॥ एनामपि गुरोर्वाचं मुमुक्षुरमत्य सः || वीरम्मन्यो ययौ कोशा - सदनं मदनाऽऽश्र यम् ॥ १७५ ॥ स्पर्धया स्थूलभद्रस्य नूनमागादयं मुनिः । कोशाऽपि तं विलोक्येति दध्यौ दक्षाऽनमच तम् ॥ १७६ ॥ स्थिप्रार्थयामास साधुश्चिशालिकाम् || कोशापि तां ददौ सोऽपि, सोत्सेकस्तां प्रविष्टवान् ॥ १५७ ॥ बुभुजे च तया दत्तमाहारं षड्रसाश्चितम् || अथ कोशाऽपि तत्रागान्मध्याह्ने तं परीक्षितुम् ॥ १७८ ॥ मृगाक्षीं तां च स प्रेक्ष्य, क्षणात्क्षोभमुपागतः ॥ मदनाssवेशविवशः, संवेर्शनमयाचत ।। १७९ ।। ततः कोशा तमित्यूचे, स्वामिन्! पण्याङ्गना वयम् ! ॥ स्वीकुर्मः शक्रमपि नो, धनदानं विना कृतम् ! || १८० ॥ मुनिः स्माह प्रसद्य त्वं मां निर्वापय सङ्गमात् ॥ वह्नौ शैत्यमिवाऽस्मासु, द्रविणं तु सुदुर्लभम् !
1
१ नाशः । २ तिरस्कृत्य । ३ कामः । ४ मृगस्य अक्षिणी इव अक्षिणी यस्याः सा । ५ व्याकुलः । ६ भोगम् । ७ इन्द्रः ।
৬66
अध्य०२
॥८८॥