________________
उतराध्य
मनसूत्रम् ॥८६॥
॥१३७॥
सावोच द्वाचा पीयूषेकुल्यया || स्वागतं भवतः स्वामिन् ! कामधिकारिरूप हे ! ॥ १३४ ॥ अद्य चिन्तामणिर्लन्धः, फलितोऽय सुरद्रुमः ॥ अद्य कामगवी प्राप्ता, नाथ ! त्वयि समागते || १३५॥ अद्यन्तिरायापगमात् पुण्यं प्रादुरभून्मम । दिष्टथा पीयूषदृष्टयाभं, | यत्प्राप्तं तव दर्शनम् ।। १३६ ।। अथ प्रसद्य सद्यो मां, समादिश करोमि किम् १ ॥ सर्वमेतचवैवास्ति, वित्तं चित्तं वपुर्गृहम् । ततः श्रीस्थूलभद्रर्षि - भगवानेवमब्रवीत् ॥ चित्रशालामिमां देहि, स्थातुं मासचतुष्टयम् ॥ १३८ ॥ गृझतामिति साऽप्युक्त्वा, सजयित्वा च तां ददौ । भगवान् स्थूलभद्रोऽपि तस्थौ तत्र समाहितः ॥ १३९ ॥ कोशादत्तं षड्रसाढ्य - माहारमुपभुज्य च ॥ प्रणिधानं दधौ साधुः, साधुधर्माब्जषट्पदः ॥ १४० ॥ रूपलावण्य कोशोऽथ, कोशा कौशलशेवधिः ॥ शृङ्गाराऽगारशृङ्गार- घरा गान्मुनिसन्निधौ ॥ १४१ ॥ कटाक्षैर्लक्षयन्ती तं मुनिं सरैशरोपमैः ॥ हावैर्मनोगतं भाव - मुद्रमन्ती मनोहरैः ॥ १४२ ॥ उत्तरीययथास्थान-स्थापन व्याजतो मुहुः ॥ व्यञ्जयन्ती स्तनौ स्तब्धौ खसौन्दर्यमदादिव ॥ १४३॥ सलावण्यसुधापीन - त्रिवली व लिमज्जुलैस् ॥ दर्शयन्ती मध्यदेश- मङ्गमोटनपाटवात् ॥ १४४ ॥ रोमराजीवलयितां, गम्मीरां नाभिकूपिकाम् || प्रकाशयन्ती सुनीवी-बन्धोच्छ्वासन कैतवात् ॥ १४५ ॥ दग्धपूर्व महेशेनो- जीवयन्ती मनोभवम् ॥ पञ्चमध्वनिगीतेन, पीयूषद्रवबन्धुना ॥ १४६ ॥ वृता सखीगणैर्वेणु - वीणाद्यातोद्यवादकैः ॥ सा साधोः पुरतचक्रे, नाटथं विश्वैकमोहनम् ॥ १४७ ॥ [ षद्भिः कुलकम् ] तद्वीक्ष्याऽपि स्थूलभद्रो, धर्मध्यानं मुमोच न ॥ ततः कोशा पुरस्तस्यो- पविश्येति गिरं जगौ ॥ १४८ ॥ स्वामिंस्तव वियोगेन, तीव्रदुखौषदायिना ॥ अभून्मे दिनमेकैकं, दिम्यसंवत्सरोपमम् ॥ १४९ ॥ सोदरं वडवावह्ने मन्ये त्वद्विरदं विभो ! ॥ यदयं नेत्रनीरोध, पायं. १ अभूतसदृशा इत्यर्थः । २ आम्बेन । ३ साधुधर्म एवं अजं (कमलं) तंत्र षट्पदः (भ्रमरः ) ४ स्मरः कामः । ५ मनोहरम् । शङ्करेण मंदनम् । ८ बन्धुम् ।
अध्य०२
॥८६॥