SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यमनसूत्रम् ॥८४॥ U पकोशां तद्वशंवदः ।। १०२ ।। स्थूलभद्रे दृढप्रीतिः कोशा त्वन्यमियेष न ॥ स्थूलभद्रगुणान् किन्तु सा सस्मार दिवानिशम् ॥ १०३ ॥ भ्रातुः प्रियेति तद्गेहे, प्रत्यहं श्रीयको ययौ । तं च वीक्ष्योद्भवद्भूरि- दुःखपूरा रुरोद सा ॥ १०४ ॥ श्रीयकस्त तदेत्याख्य - ब्रूहि भद्रे ! करोमि किम् ? || असौ पापो वररुचि - मम तातमघातयत् ॥ १०५ ॥ श्रीस्थूलभद्रविरहं चायमेवा तनोतव । अरुन्तुदविषादिग्ध - शल्यशल्य सहोदरम् ॥ १०६ ॥ तव स्वसारं तद्यावदुपकोशां भजत्ययम् । वैरंनिर्यातनोपायं तावत्कि चिद्विचारय ॥ १०७ ॥ यदि चायं पिवेन्मद्यं वैरशुद्धिस्तदा भवेत् । तदादिश्योपकोशां त्वं, कारयामुं सुरापिवम् ॥ १०८ ॥ एवं देववाक्यं सा, स्वीचकार पणाङ्गना ।। ऊचे च भगिनीं मद्य-रुचिं वररुचिं कुरु ।। १०९ ।। ततस्तं मद्यपं चक्रे, साप्युपायेन केनचित् ॥ नास्ति किञ्चनाकार्य, स्त्रीवशानां विदामपि ॥ ११० ॥ स्वैरं वररुचिभट्टो, मद्यमद्यास्ति पायितः ॥ उपको शेति कोशायै, प्रभातेऽज्ञापयत्ततः ॥ १११ ॥ कोशाऽपि तं तद्वृत्तान्तं, श्रीयकाय न्यवेदयत् ॥ तच्छ्रुत्वा श्रीकोऽप्युच्चै-स्तु|ष्टोऽगात् भूपपर्षदि ॥ ११२ ॥ शकटालगुणान् स्मारं स्मारं नन्दनृपोऽन्यदा ॥ इत्यूचे श्रीयकामात्य – मास्थानस्थः सगद्गदम् ।। १०३ ॥ शकटालो महामन्त्री, ममाऽभूद्भूरिधीनिधिः ॥ इदं तेन विना स्थानं, शून्यवत्प्रतिभाति मे । ॥ ११४ ॥ उवाच श्रीयकः स्वामि – निह किं कुर्महे १ वयम् ।। सुरापायी वररुचिः, पापं सर्वमिदं व्यधात् ।। ११५ ।। किमेष मद्यं पिवती - त्यपृच्छतं ततो नृपः ॥ इदं श्वो दर्शयिष्यामी-त्युवाच श्रीयकोऽपि हि ॥ ११६ ॥ द्वितीये चाह्नि सभ्यानां राज्ञश्च श्रीयकः सुधीः ॥ एकै११ अरुपी (मर्माणि ) तुदति (पीडति ) अरंतुदः चासौ विपेन आ ( समंतात् ) दिग्धं ( लिप्तं ) शस्यं ( बाणं ) तस्य शल्यं ( दुःखं ) तत् सहोदरम् । २ वैरशुद्धयुपायम् ॥ * * *+++91% *%% अध्य०२ በረበ
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy