SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ उत्तराय- बनरत्रम् ॥८२॥ ततो न ते ॥३२॥ तदेतत्प्रतिपद्य त्वं, मलिनिकुरु विद्विषम् ॥ मुबुद्धेऽसत्कुलं चासा-दुद्धर व्यसनोदधेः ॥७०॥ तच्छुत्वा श्रीयको दध्यौ, किं करोमि ? क याम्यहम् ॥ वच्मि ? चेदं पुरः कस्य, द्विधाप्यापतितं मम ॥७१॥ इतस्तातवपुर्धातः, इतश्चाज्ञाव्यतिक्रमः।। आपन्नस्तदयं न्यायः, इतो व्याघ्र इतस्तटी ।। ७२ ॥ ध्यायन्ने कथमपि, पितृवाणी प्रपद्य ताम् ॥ पुरतो नृपतेः पार्थे, जगाम श्रीयको द्रुतम् ।। ७३ ॥ पृष्ठतः शकटालोऽगा-नृपश्चाभूत्पराङ्मुखः ॥ उपविश्य ततो मन्त्री, किश्चिदूचे यथोचितम् ॥ ४॥ तथाप्यजल्पति क्षमापे, क्षिप्त्वाऽमात्यो मुखे विषम् ॥ नृपं ननाम तन्मौलिं, श्रीयकोऽप्यऽसिनाऽच्छिनत् ॥७५ ॥ ततो हाहारवो लोकै-चक्रे भूपोऽपि सम्भ्रमात् ॥ तमित्यूचे त्वया वत्स !, दुष्करं किमिदं कृतम् ? ॥ ७६ ॥ उवाच श्रीयकः स्वामिन् !, यदसिन् । प्रणतेऽपि वः॥ नासीत्प्रसचिस्तत् ज्ञातो, मयाऽयं द्रोहकृत प्रभोः ॥७७॥ स्वामिद्रोही च निग्राह्य, इत्ययं निहतः पिता ॥ येन प्रभोरतुष्टिः स्या-चातेनापि हि तेन किम् ॥ ७८ ॥ तच्छुत्वा व्यमृशद्भपो, यदीहकसेवकानपि ॥ जनोऽन्यथाऽऽख्यत्सा नूनं, माया वररुचेः कवेः॥७९॥ यद्वा ममैव दोषोऽयं, यत्तदा न व्यचारयम् अविमृश्यकरो यस्मा-दन्धादपि विशिष्यते! ॥ ८ ॥ध्यात्वेत्याश्वासयपः, श्रीयकं प्रियभाषितैः॥ प्रेम्णा स्वयं वितेने च, शकटालो देहिकम् ॥८१॥ ऊचे च श्रीयक | मन्त्रि-मुद्रेयं गृह्यतामिति ।। प्रणम्य श्रीयकोऽप्येव-मथ व्यज्ञपयन्नृपम् ॥८२॥ अस्ति श्रीस्थूलभद्राह्वः, कोशागेहे ममाग्रजः॥ तिष्ठतस्तत्र तस्याद्य, जज्ञे द्वादशवत्सरी ।। ८३ ॥ तस्यासौ दीयतां मुद्रा, श्रुत्वेत्याहूय तं नृपः॥ जगाद मन्त्रिमुद्रेय-मस्माकं गृह्यतामिति ॥ ८४ ॥ विचार्येदं करिष्यामी-त्युक्ते तेन नपोऽवदत ॥ यद्विचार्य तदद्यैव, विचारय महाशय ! ॥५॥ अशोकवनिकां , शत्रुम् । १ व्यसनं (दुखं) एव उदधिः (समुद्रः) तस्मात् ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy