SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अध्य उचराध्य यनसूत्रम् ॥७९॥ + त्वदाऽऽहाऽधीनः, करिष्ये तदपि प्रिये ! ॥ २१॥ प्रतिपद्येत्यगाद्भप-सभा सचिवपुङ्गवः ।। तत्रायातः स भट्टोऽपि, नृपं तुष्टाव पूर्ववत् ॥२२॥ स्तुतिप्रान्ते च भूपेना-ऽमात्यवक्त्रे विलोकिते ॥ अहो ! सूक्तानि काव्यानि, प्राशंसीदिति धीसखः ॥२३॥ नृपोऽथ तस्मै दीनारा-नष्टोत्तरशतं ददौ ॥ इत्थं तावद्धनं तस्मै, भूपोऽदात् प्रतिवासरम् ॥२४॥ शकटालस्ततो दध्यौ, दत्वाऽस्मै धनमन्व | हम् कोशं निष्ठापयत्येष, नृपो निष्कारणं किमु १ ॥२५॥ ध्यास्वेति नन्दभूपाल -मवादीदिति धीसखः । स्वामिन् ! किमस्मै भट्टाय, प्रत्यहं दीयते धनम् ॥२६॥ राजा जगाद काव्यानि, वणितानि त्वयाऽस्य यत् ॥ ततोऽस्मै दीयते नोचे-त्पूर्व नाऽदामहं कथम् ? |॥ २७ ॥ अमात्या स्माह वृत्तानि, लौकिकानि पठत्ययम् । तानि प्राशंधसिपमहं, ततो भूपतिरित्यवक् ॥२८॥ किं पुराणानि काव्यानि, पठत्येष पुरो मम ॥ उवाच सचिवः सन्ति, जीर्णान्येतानि निश्चितम् ॥ २९॥ यद्यत्र प्रत्ययो न स्या-त्तदा सप्ताऽपि मत्सुताः ।। तदुक्तान्येव काव्यानि, पठिष्यन्ति प्रभो पुरः ॥३०॥ तनिशम्याऽथ साश्चयों, नृपो जवनिकान्तरे ॥ सप्ताऽपि मन्त्रिपुत्रीस्ताः, समा हुय न्यवीविशन ॥ ३१ ॥ अथाऽऽगतो वीररुचिः, काव्यस्तावद्भिरुत्तमैः ।। तुष्टाव क्ष्मापति क्षिप्रं, तानि यक्षाऽप्यधारयत् ॥३२॥ 5 राजादेशात्सभामेत्य, तथैवाकथयच्च सा ॥ एवं वारद्वयं श्रुत्वा, यक्षदत्ताऽपि तान्यवक् ॥ ३३ ॥ सर्वा अप्येवमृचुस्ता-स्तानि राज्ञो अतः क्रमात् ॥ ततो वररुचे राजा, रुष्टो दानमवारयत् ॥ ३४ ॥ गङ्गास्रोतोजले यन्त्रं, चशे वररुचिस्ततः ॥ अष्टाग्रशतदीनारअन्धिका तत्र च न्यधात् ॥ ३५ ॥ प्रातच जाह्नवी स्तुत्वा-क्षिणा यन्त्रमचीचलत् ॥ दीनारग्रन्थिरुल्लुत्य, न्यपतत्तत्करे तदा ॥३६॥ लोकस्तत्प्रत्यहं प्रेक्ष्य, विसितः प्रोचिवानिति ॥ अहो! गङ्गापि दीनारा-नस्मै दत्ते स्तुता सती ॥ ३७ ॥ जनोक्त्या + + + नृपम् ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy