SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनपत्रम् अध्य०२ ७८॥ ॥७८॥ सुताः सप्ताऽभवंस्तयोः ॥४॥ यक्षा दक्षाऽग्रहीतासु, श्रुतं सकृदपि श्रुतम् ॥ एकैकवारवृद्धयाऽन्या, अप्येवं जगृहुद्रुतम् ॥५॥ याबद्रेणा मप्तकत्वः, काव्याद्याकर्ण्य सत्वरम् ॥ निर्ममे कण्ठपीठस्थं, स्वाऽभिधानमिवोच्चकैः ॥ ६॥ रूपेणाप्रतिरूपेण, | दत्तपत्रा रतेरपि ॥ लावण्यपुण्या पण्यस्त्री, तत्र कोशाऽभिधाऽभवत् ।। ७॥ स्थूलभद्रः कलाऽऽचार्या-दधीत्य सकलाः कलाः॥ कोशां वीक्ष्याऽनुरक्तस्तां, तस्थौ तस्या निकेतने ॥ ८॥ भूरिभूरिङ्गदानस्तां, स स्वीचक्रे कलानिधिः ॥ तस्या मानसमप्यात्मा-यत्तं | चक्रे गुणैर्निजैः ॥९॥ अहो ! श्रीस्थूलभद्रस्य, सौभाग्यं जगदुत्तमम् ॥ तन्मयीवाऽभवद्येन, कोशा वारवधूपि ॥ १०॥ तया | सममविज्ञाता-ऽहोरात्रपरिवर्तनः ॥ विलासैर्विविधैः स्थूल-भद्रो रेमे गुणाम्बुधिः॥११॥ यदभूनिबिडं प्रेम, तयोरन्योऽन्यरक्तयोः।। अपि वाचस्पतेर्वाचां, तद्भवेनैव गोचरः ॥१२॥ दृढाऽनुरागौ तौ भिन्न-देहावप्येकमानसौ ॥ अन्योऽन्यं विरहं नाधि-सेहाते नखमांसवत ।। १३ ॥ कोशासक्त इति स्थूल-भद्रो नाऽगामिजं गृहम् ॥ श्रीयकस्तु बभूवात-रक्षको नन्दभूभुजः॥१४॥ इतश्च नन्दनृपति, नाम्ना वररुचिः कविः॥ नव्यैरष्टोत्तरशत-काव्यैरन्वहमस्तवीत् ॥१५॥ तानि श्रुत्वा नृपस्तुष्टो, मन्त्रिवतंत्र व्यलोकत ॥ स तु मिथ्यामतेस्तस्य, प्रशंसां नाऽकरोत्कवेः ॥१६॥ ततः पृथ्वीपतिस्तस्मै, भट्टायाऽदान किश्चन ।। भट्टोऽपि धीसखाऽधीनं, विवेद नृपति तदा ॥१७॥ लोकोक्त्या सचिवं तं च, विज्ञाय गृहिणीवशम् ।। भेजे लक्ष्मीवती खार्थ-सिद्धथै वररुचिर्द्विजः ॥१८॥ | तां तुष्टः स्तुतिमिश्चैवं, ययाचे स महाकविः॥ मत्काव्यं त्वद्रािः राज्ञा, पुरो मन्त्री प्रशंसतु ॥ १९ ॥ दाक्षिण्येनैव दवापि, तद्वाचं | तां प्रपद्य सा ॥ उवाच मन्त्रिणे सोऽपि, तदाऽऽकर्पोऽब्रवीदिति ॥ २०॥ सम्यग्दृशो न युक्तं मे, तत्काव्यानां प्रशंसनम् ॥ किन्तु , पवित्रा युक्ता वा । २ वेश्या । ३ भत्यन्तसुवर्णप्रदानः । ४ वेश्या । ५ बृहस्पतेः । । मुखम् । ७ मन्ध्याऽऽयत्तम् । ८ ममास्यम् । ९ रामा ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy