SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 1:७४॥ उच्चराध्य- सोऽमरः पोथःपूर्णदृतिप्रायं, प्रोचैश्चक्रे जलोदरम् ॥ ७७ ।। उत्थातुमपि तद्धारा-दहद्दत्तः शशाक न ॥ जहुवैद्याश्च सर्वेऽपि, तं चिगनमत्रम् | कित्सतुमक्षमाः ॥ ७८ । सद्यः समग्ररोगान्तं, करोमीत्युच्चकैर्वदन् ॥ ततोऽभ्रमत्पुरे तत्र, स देवो वैद्यरूपभृत् ॥ ७९ ॥ अर्हद्दत्तो | अध्यक ऽथ तं वीक्ष्य, सद्यः स्माह कृताञ्जलिः॥ नीरु कुरु मां वैद्य !, व्यपनीय जलोदरम् ।। ८० ॥ निजगादाऽगदकारो, गदोऽसाध्योऽयमस्ति ते ॥ तथापि शमयाम्येन-मुपायैर्विविधैरहम् ॥८॥ किन्तु भेषजशस्त्रादे-मुं कोत्थलकं मम ॥ यावजीवं समुत्पाव्य, त्वया सेव्योऽहमन्वहम् ।। ८२ ॥ ततो रोगी जगौ रोग-मेनं हृतवतस्तव ।। सेवकोऽस्मि विना मूल्यं, क्रीतः किं भूरिभाषितैः ॥ ८३ ॥ नीतो नीरोगतां माया-भिषजो भेषजैस्ततः ॥ तद्दासत्वमुरीकृत्य, तेन साकं चचाल सः॥ ८४ ॥ उत्पाटनार्थ तस्याथ, शस्त्रकोत्थलकं || निजम् ॥ देवो ददौ महामारं, निममे तं च मायया ॥८५॥ अर्हद्दत्तोऽपि तं भूरि-भारमन्वहमुद्वहन् ॥ इति दध्यौ कथमयं, मया । || शश्वद्वहिष्यते ॥ ८६ ॥ वाग्वद्धश्च कथङ्कार, भारमेनं जहाम्यहम् ॥ चिन्तयन्निति सोऽचाली-द्वीधानतकन्धरः ॥ ८७ ॥ ददर्श | चाऽन्यदा क्वापि, साधून्खाध्यायतत्परान् ।। तदा तं वीवधोद्विग्न-मेवं मायामिषग जगौ ॥ ८८ ॥ प्रव्रज्यां यदि गृह्णासि, तदा त्वं | मुच्यसे मया ॥ स निशम्येति तद्वाणी-मित्यभाणीद्भरादितः ॥ ८९ ॥ वाहं वाहममुं भारं, वज्रसारमहर्निशम् ॥ कुब्जीभृतोऽस्म्यहं तन्मे, साम्प्रतं साम्प्रतं व्रतम् ॥ ९० ॥ ततो मायाऽगदङ्कार-स्तं निन्ये मुनिसन्निधौ ॥ तस्मै प्रदाप्य दीक्षां च, स्वयं स्वलॊकमीयि । जलेन पूर्णा दृतिः (दयी इति भाषा०) सहक । २ वैथेन । ३ अन्नानिटत्वादिटा न भाव्यम् , तथापि सर्वेषां धातूनां विकल्पितेट्वं (धूगो. दितः-४-४-३८) इति सूत्रे 'बहुलमे केषां विकल्पः' इति मतान्तरप्रदर्शनेन समर्थितवन्तः श्रीहेमचन्द्रसूरयः ॥ ४ वीवधेन (भारेण) आ ( समन्तात् । नता कन्धरा (ग्रीवा) यस्य सः । ५ दीक्षाम् । ६ योग्यम् ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy