________________
उपराज्यवनसूत्रम् ॥७२॥
इतः सोऽहिः, स्वस्नोस्तनयोऽभवत् ||४४ || प्राग्वज्जातिस्मृतिं प्राप्तो, मूकत्वं स्वीचकार सः ॥ स्नुषामम्बां सुतं तातं कथं ? बच्मीत 'चिन्तयन् ॥ ४५ ॥ उपायैः प्रचुरैर्माता - पितृभ्यां विहितैरपि । मायामूकस्य तस्याऽगा-न मूकत्वं कदाचन ॥ ४६ ॥ अशोकदन्त इत्यासी - तस्याह्ना' तातनिर्मिता । लोकास्तु तजल्पन्त - मजल्पन्मूकनामकम् ॥४७॥ ज्ञात्वा ज्ञानेन मूकस्य, प्रतिबोध मथाऽन्यदा चतुर्ज्ञानधरास्तत्र स्थविरा: समवासरन् ॥ ४८ ॥ तैश्व मूकगृहे श्रेष्ठौ श्रमणो प्रहितावुभौ । तच्छिक्षितामिमां गाथां, पुरो मूकस्य | पेठतुः ॥ ४९ ॥ “ तांबस ! किमिणा : मूअ-वरण पडिवञ्ज जाणितुं धम्मं || मरिऊण सूअरोरग, जाओ पुत्तस्स पुत्तोचि ॥ ५० ॥" श्रुत्वेति विस्मितो मूक- स्तौ प्रणम्येति पृष्टवान् । एतद्युवां कथं वित्थ-स्ततस्तावित्यवोचताम् ||२१|| इहोद्याने स्थिता अस्म - दुगुरवो हि विदन्त्यदः ॥ ताभ्यां सह ततो मूको, गत्वोद्यानेऽनमद्गुरून् ॥ ५२ ॥ श्रुत्वा तद्देशनां पाप-पङ्कठावनवाहिनीम् ॥ स तापसश्रेष्ठिजीवः, श्राद्धधर्ममुपाददे ॥ ५३ ॥ इतश्च जातिमदक- त्पुरोहितसुतोऽमरः ॥ महाविदेहे सर्वज्ञ - मित्यपृच्छत्कृताञ्जलिः ॥ ५४ ॥ | अहं किमस्मि ? सुप्राप - बोधिस्तदितरोऽथ वा ॥ जिनो जगाद देव ! त्वमसि दुर्लभबोधिकः ॥ ५५ ॥ सुरोऽपृच्छत्पुनः सर्व, कोल्पत्स्येऽहमियुतः ॥ जिनो जगौ त्वं कौशाम्ब्यां, सूकभ्राता भविष्यसि ||५६ || धर्मावाप्तिश्च ते मूका-द्भाविनीति निशम्य सः ।। जिनं प्रणम्य कौशाम्ब्यां, मूकोपान्तमगात्सुरः || ५७॥ दत्त्वा तस्मै बहुद्रव्यं, तमित्यूचे च सोऽमरः || अहं त्वन्मातुरुत्पत्स्ये, गर्भे स्वर्गात्परिच्युतः || ५८ || अकालेऽपि तदा तस्याः, भावी माकन्ददोहदः ॥ सदाफलाम्रस्तद्धेतो- रोपितोऽस्ति मया गिरौ ॥ ५९ ॥ मृत्वा शकर उरगो' जातः पुत्रस्य पुत्र इति ॥ १ ॥ ३ नदी |
१. अभिधानम् । २ तापस! किमनेन मूकवतेन ! प्रतिपचस्व शाखा धर्मम्। ४ तीर्थङ्करम् । ५ आनेच्छा |
अध्य०२
॥७२॥