SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उचराध्यमनसूत्रम् ॥७॥ ॥७ ॥ ऽदीदृशन क्षुल्लकोऽपि सः । प्राविशयुवराजर्षि-रपि तत्र भयोज्झितः॥११॥ तदा च तत्र क्रीडन्ती, सुतौ राजपुरोधसोः ॥ अभूतां सङ्गतावेक-राशौ पापग्रहाविव ॥ १२॥ दृष्ट्रातं चाऽऽगतं राज-परिवारोऽब्रवीदिति ॥ ब्रजाऽन्यत्र सुने ! नो चेत्, त्वां 8 अध्य-२ कुमारौ हनिष्यतः ॥ १३ ॥ तदाकर्ष्यापि स पुरो, ययौ धैर्यनिधिर्मनिः॥ धर्मलाभ इति प्रोच्चै- ढखरमुवाच च ॥ १४ ॥ अयं * क्रीडनकमायो, यदिहागान्मुनिः स्वयम् ॥ तदस्मद्भाग्ययोगेन, जातमद्यातिशोभनम् ॥ १५॥ जल्पन्ताविति तौ राज-पुरोहितसुतौ शठौ॥ तां मुनेगिरमाकये, तदभ्यर्णमुपेयतुः ॥ १६॥ [ युग्मम् ] अभ्यधत्तां च साधोः! त्वं, नर्चितुं बुध्यसे न वा! सोऽवादी-15 द्वेम्यहं नाट्य, वाद्यं वादयतं युवाम् ॥ १७ ॥ आरेभाते ततस्तूर्य-ताडनं तौ यथातथा ॥ वाद्यं वादयितुं किन्तु, नाऽज्ञाशिष्टां | यथोचितम् ॥ १८ ॥ ततो वाचंयमः' प्रोचे, सम्यग् वादित्रवादनम् ॥ रे ! कोलिको! न जानीथो, युवां जडशिरोमणी ॥ १९॥ तदाकातिरुष्टौ तो, मुनि हन्तुमधावताम् ॥ नियुद्धवेदी साधुस्तु, तावायान्तौ गृहीतवान् ॥ २० ॥ कुट्टयित्वा तदङ्गानि, सन्धिम्यथोदतारयत् ॥ मुनिना हन्यमानौ तु, तौ चक्रन्दतुरुच्चकैः ॥ २१ ॥ श्रुत्वाऽऽक्रन्दास्तदा दध्यौ, बहिःस्वस्तत्परिच्छदः ॥ इन्यमानः | कुमाराम्यां, नूनमाक्रन्दति व्रती ॥ २२ ॥ ऋषिद्विषोस्तयोरेवं, शिक्षा दत्वा गते मनौ ।। साशङ्कस्तत्परिकर-स्तयोः पार्श्वमगात्ततः ॥ निश्चेष्टौ काष्टवद्वक्तु-मप्यशक्तौ गतौ भुवम् ॥ दृशाऽतिदीनया प्रेक्ष-माणौ सर्व परिच्छदम् ॥ २४ ॥ तौ समीक्ष्य तथावस्थौ, सम्भ्रा न्तस्तत्परिच्छदः॥ न्यवेदयदुदैन्तं तं, द्रुतं नृपपुरोधसोः॥ ३५॥ [युग्मम ] तदाकातिसम्भ्रान्तौ, सद्यो राजपुरोहितौ ॥ पुत्रयो | दुरवसां तां, तत्रायातावपश्यताम् ॥२६॥ परीवारगिरा ज्ञात्वा, मुनिमूलां दशां च ताम् ॥ जग्मतुर्यतिपार्श्व तौ, क्षिप्रं क्षमापपुरोधसौ १ मुनिः । २ बाहुयुद्धवेत्ता । ३ वृत्तान्तम् । १ नृपः ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy