________________
उच्चराध्यबनसूत्रम् ॥६८॥
वरम् । बद्धं दवरकेणोचै - विधाय कटिपट्टवत् ॥ १४२ ॥ पश्यन्ति मां स्नुषाः पश्चा- दिति हीणोऽपि तं शबम् ॥ स उवाहोपसर्गोsaौ, जात इत्यवधारयन् ॥ १४३ ॥ परीष्ठाप्य पश्चादागतं वीक्ष्य तं गुरुः ॥ प्रोचे तात ! किमद्येदं वासः परिदधे १ लघु ॥ १४४ ॥ सोमः शशंस पुत्रायो -पसर्गोऽभूदुपस्थितः । गते च शाटके तेन, पर्यधां लघु चीवरम् ॥ १४५ ॥ ससम्भ्रमा दवाचार्या - स्तन्निशम्यैवमूचिरे ॥ तातार्थमानयत भो - विनेयाः ! पृथु शाटकम् ॥ १४६ ॥ ततः सोमोऽब्रवीत्पुत्र! लञ्जनीयं बभूव यत् ।। तन्मेऽद्य सकलै- माकृष्टे कटिपट्टके ॥ १४७ ॥ तच्चोलपट्ट एवास्तु शाटकेन कृतं मम ॥ इत्युचौनमनूचानां स्तं तथैवाऽनुमेनिरे ॥ १४८ ॥ इत्युपायैवोलपट्टे, ग्राहितः सूरिपुङ्गवैः || सोमस्ततः परं सम्यक्, सेहेऽचेलपरीषदम् ।। १४९ ।। पश्चादचीवर परीषह मेष यद्वत्, श्रीसोम| देवमुनिरित्यसहिष्ट सम्यक् ॥ सद्यः परैरपि तथा श्रमणैः स नित्यं, श्रीमजिनेन्द्रवचनान्यनुवर्त्तमानैः ॥ १५० ॥ इत्यचेल परीषदे सोमदेवर्षिकथा ॥ ६ ॥
.
अचेलस्य चाऽप्रतिबद्धविहारिणः शीतादिभिः पीड्यमानस्यारतिरपि स्यादिति तत्परीषहमाह
मूलम् - गामाशुगामं
रीअंतं, अणगारं अकिंचनं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ १४ ॥ व्याख्या -- ग्रामश्च जिगमिषतोऽनुग्रामश्च तन्मार्गानुकूलो ग्रामानुग्रामस्तं, उपलक्षणं चैतन्नगरादेः "रीअंतंति” 'रीयमाणं' विह रन्तं 'अनगारं ' मुनिं 'अकिश्चनं' निष्परिग्रहं, "अरतिः' संयमविषया अधृतिः 'अनुप्रविशेत्' मनसि लब्धास्पदा भवेत्, 'तं' अरतिरूपं 'तितिक्षेत' सहेत परीषदमिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमाह
१ वदन्तम् । २ आचार्याः ।
अध्य०२ ॥६८॥