SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ एचराध्य यनसूत्रम् ॥६ ॥ R+ तं जगुः ॥ १२५॥ यज्ञोपवीतवन्तं नो, मुनि मन्यामहे वयम् ॥ ततः सोमः सुतं पृष्ट्वो-पवीतमपि मुक्तवान् ।। १२६ ॥ तन्मोक्ष अध्य०२ णक्षणे त्वेवं, प्रोचुः श्रीआयरक्षिताः ॥ एतन्मुञ्चत कोह्यस्मान् , विप्रानो वेत्यदो विना ? ॥१२७ ।। इत्थं छत्रादिके तेन, त्यक्ते ॥६७॥ | बालाः पुनर्जगुः । न शाटकोपसंख्या(व्या)न-मेनं वन्दामहे मुनिम् ॥१२८॥ सोमदेवस्तदाकण्ये, जजल्पाऽनल्पकोपभाक् ॥ रे! मा | नमत मां यूयं, समं पितृपितामहैः ॥१२९॥ येऽन्ये नमन्ति तैरेव, सन्तुष्टिमें भविष्यति ॥ कटीपट्टकमेनं तु, न त्यक्ष्यामि भवद्विरा ॥ १३० ॥ तदाकर्ण्य ययुर्वालाः, अन्यदा च महामुनिः॥ विहिताऽनशनः कोऽपि, तत्र गच्छे व्यपद्यत ॥ १३१॥ तदा पितुः ॐ कटीपट्ट-त्याजनाय जगौ गुरुः ॥ अस्य देहं वहति य-स्तस्य लाभो भवेन्महान् ॥ १३२ ॥ ततस्तच्छिक्षिताः पूर्व-दीक्षिता मिक्षवः परे ॥ उदतिष्ठस्तमुद्वोढुं, तदा चेत्यऽब्रवीद्गुरुः ॥१३३॥ यूयं यदुत्थिताः सर्वे-ऽप्यमुं लाभं जिघृक्षवः ।। तदसद्धन्धुवर्गोऽयं, निर्जरां | लप्स्यते कथम् ? ॥ १३४ ॥ तदाकर्ण्य सकोऽय, सोमदेवमुनिर्जगौ ॥ किमत्र प्राप्यते पुत्र !, निर्जरा भूयसीतरा ॥ १३५ ।। | उवाच सूरिः कार्येऽस्मि-निर्जरा जायते भृशम् ।। सोऽभ्यधादहमप्येनं, तबहिष्ये सहर्षिभिः ॥ १३६॥ गुरुजगी बालकृतः, उपसर्गो न जायते ॥ तं चेत्सहितुमीशिंचे, वहनीयस्तदा ह्ययम् ॥१३॥ तं च चेन्न सहिष्यध्वे, तदा स्यात्सुन्दरं न नः ॥ इति स्थिरीकृतः ५ | सोमो-ऽवहत्तं सह साधुभिः ॥१३८ ॥ तदा च तस्य पुरतो, गच्छत्सु बहुसाधुषु ॥ तद्व्युत्सर्थमेतासु, स्थिताखार्यासु पृष्ठतः ॥ ८ ॥१३९ ॥ पूर्वसङ्केतिता बालाः, सोमदेवमुनेद्रुतम् ॥ कटीपट्टकमाकृष्या-ऽऽदाय च त्वरितं ययुः॥ १४०॥ [ युग्मम् ] अतीव । | लज्जितः सोऽथ, परैरूचे शबं त्यजन् ॥ उपसर्ग सहस्वाऽमुं, मा मुश्च मृतकं करात् ॥ १४१॥ ततस्तस्याऽन्यमुनिना, मानोपेतान्यची , अधोवस्त्रम् । MASUS
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy