________________
२
उत्तराध्य- यनसूत्रम् 1॥६६॥
निशम्येति वचः सूरेः, सोमदेवमुनिजगौ ॥ १०९॥ गन्तुं शक्नोम्यहं नैव, पुत्र ! छत्रं विनाऽऽतपे ॥ विण्मत्रोत्सर्जने शौचं कथं |
अध्य०२ स्यात्करकं विना ? ॥ ११ ॥ त्यजामि यज्ञसूत्रं च, विप्रत्वावेदकं कथम् ॥ पीडा च स्यात्कण्टकैम, विनोपानहमध्वनि ॥ १११ ॥ ४
सूरिः स्माहाऽथ यद्येवं, तिष्ठत्वेतत्तदाखिलम् ॥ भवद्भिस्त्यज्यतां किन्तु, सर्वोऽप्यऽन्यः परिग्रहः ।।११२॥ ततः परिग्रहं सोऽन्य* मत्याक्षीदथ सूरयः ।। बालान् किश्चिच्छिक्षयित्वा-ऽन्यदा नन्तुं जिनान् ययुः ।। ११३ ॥ ततस्तच्छिक्षिता बालाः, सोमदेवतपस्वि
नम् ॥ हित्वा क्षुल्लकपर्यन्तान् , सर्वसाधून ववन्दिरे ॥११४॥ दर्श दर्श सोमदेवं, ते चैवं प्रोचिरे मिथः ॥ नामाभिर्वन्दनीयोऽयं, छत्रवान् स्थविरो मुनिः ॥११॥ तच्छृत्वा सोमदेवर्षी-रुष्टोभाषिष्ट तानिति ।। अरे! मत्पुत्रपौत्रादीन , बन्दध्वे चालकानपि॥११६॥ मां तु वृद्धं गुरोस्तात-मपि नो नमथाऽभकाः। ॥ वर्तिक मया परिव्रज्या, नोपात्ताऽद्यापि विद्यते ॥ ११७ ॥ बालाः प्रोचुर्दीक्षित| स्य, भवेच्छत्रादिकं कथम् ॥ त्यक्तातपत्राः सर्वेऽपि, दृश्यन्ते साधवः खलु ? ॥११८॥ सोमोऽथ व्यमुशच्छावा, अप्येवं शिक्षयन्ति माम् ॥ साध्वाचारविरुद्धं त-च्छत्रमेतज्जहाम्यहम् ॥ ११९ ॥ विचिन्त्येति जिनाबत्वा-ऽऽगतान्सूरीनुवाच सः ।। उद्वेजकेन सर्वेषां, छत्रेणानेन मे कृतम् ॥ १२० ॥ गुरुर्जगाद यद्येवं, तदा छत्रं विमुच्यताम् ।। प्रबले त्वातपे धार्यः, कल्पको मस्तकोपरि ॥ १२१ ॥
गुरौ गतेऽन्यदा कापि, बालास्तच्छिक्षिताः पुनः॥ तं विहायापराबेम-स्तत्पृष्टाश्चैवमूचिरे ॥ १२२ ॥ कमण्डलुधरत्वाद्धि, न त्वां है वन्दामहे वयम् ॥ यत्कदापि यतेः पाच, नाऽपश्याम कमण्डलुम् ॥ १२३ ॥ तच्छ्रुत्वा सरिमापृच्छय, स प्राग्वत्कुण्डिकां जहौ । पात्रकेणैवाऽथ शौचं, कार्य गुरुरपीत्यवक् ॥ १२४ ॥ पुनस्तथैव तं बाला, नाऽनमन सूरिशिक्षिताः ॥ अवन्दननिदानच, पृष्टास्तेनेति
, कमण्डलुः । २ 'जनोह' इति भाषायाम् । ३-४ बालकाः । ५ 'कपडो' इति भाषा० ।
कब- कबर