________________
मनस्त्रम्
लप्स्यते किं विषीदसि ॥९२।। इत्थमुत्साहितोऽध्येतुं, प्रवृत्तोऽपि पुनः पुनः॥ गन्तुं पप्रच्छ स गुरुं, तं गुरुस्तु निषिद्धवान् ॥१३॥ स्चराध्य- अन्यदा स सहादाया-ऽनुजं गुर्वन्तिकं गतः ॥ इत्यूचेऽसौ मम भ्राता, मामातुमिहाययौ ॥९४ ॥ तदादिशत मां पूज्याः, श्रुत्वेति
अध्या व्यमृशद्गुरुः ॥ रक्ष्यमाणोऽप्यसौ, कस्मा-गन्तुंमुत्सहते ? मुहुः ॥ ९५ ॥ विचिन्तयन्निति श्रीमान्, वज्रस्वामी गुणोदधिः ॥
॥६५॥ ॥६५॥
श्रुतोपयोगं कृतवा-निति च ज्ञातवांस्ततः ।।९६ ॥ नाऽऽगन्ताऽसौ गतः सद्यः, स्वल्पमायुर्ममापि च ॥ तदेतद्दशमं पूर्व, मयि स्थास्थति निश्चितम् । ९७ ॥ ज्ञात्वेत्यनुमतो गन्तुं, श्रीवजेणार्यरक्षितः ॥ पुरं दशपुरं फल्गु-रक्षितेन समं ययौ ॥ ९८ ॥ श्रुत्वा में तमागतं रुद्र-सोमासोमौ नृपोऽपि च ॥ नागराश्च मुदागम्य, प्रणम्योपाविशन् पुरः। ९९॥ तेषां हिताय सोप्युच्चै-विदधे धर्मदेशनाम् ।। ताञ्चाकर्ण्य-महानन्द-मविन्दन्त नृपादयः ॥ १०॥ ततो श्रोतव्यदौहित्र-स्नुषापुत्रादिभिः समम् ॥ रुद्रसोमाऽऽददे दीक्षा, सम्यक्त्वं पार्थिवः पुनः ॥१०१॥ कथं पुत्रीस्नुषादीनां, पुरो नम इवाऽन्वहम् ।। तिष्ठामीति ह्रिया सोम-देवो न प्राव्रजत्पुनः |॥ १०२ ॥ किन्तु स्वजनपुत्रादि-स्नेहपाशनियन्त्रितः ॥ शश्वत्तत्पार्श्व एवास्था-त्र त्वन्यत्र जगाम सः ।। १०३ ॥ तश्चार्यरक्षिता.
चार्याः, प्रोचुरेवं मुहुर्मुहुः ॥ तात ! यूयं परिव्रज्य, फलं गृह्णीत जन्मनः ॥ १०४ ।। यज्ञसूत्रपदत्राण-छत्रशार्टककुण्डिकोः ।। चेन्मे| ऽनुमन्यसें तर्हि, प्रव्रजामीति सोऽप्यवक् ।। १०५ ॥ यथाकथञ्चिबृद्धोऽयं, तार्य एवेति चिन्तयन् ।। मूरिस्तदुररीकृत्य, सोमदेव
मदीक्षयत् ।। १०६॥ करणं चरणं चानु-वृत्तिमेव वितन्वता ॥ ग्राहणीयो मया तातो, ध्यात्वेति स्माह तं गुरुः ॥ १०७॥ सर्वेकी ४ मुनयश्चोल-पढें परिदधत्यमी ॥ स्थविरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ॥ १०८ ॥ छत्रादिकं पुनर्नैत-दात्मनां बहु शोभते ।।
. भातुः पुत्रः । २ पुत्रीपुत्रः । ३ पुत्रवधूः । । धोतिउं इति भाषा० । ५ कमण्डलुः ।
AAAAAA
GAURCHASKAR