________________
उचराज्ययनसूत्रम्
॥६१॥
॥ २४ ॥ पाठयिष्यन्ति ते तुभ्यं, दृष्टिवादं महामते ! ॥ सोऽप्यूचे मातरध्येध्ये, प्रातर्गत्वा तदन्तिकम् || २५ || भावयन् दृष्टिवादार्थ, सोऽथ निश्यपि नाऽस्वपीत् ।। आपृच्छयाम्बां निशाशेषे, तमध्येतुं चचाल सः || २६ ||
इतश्च तत्पितुर्मित्रं,ग्रामे क्वाप्यभवद्विजः । स चार्यरक्षितं श्रुत्वा ऽऽयांत धाम्नीत्यचिन्तयत् ॥२७॥ प्रमादेन सुहृत्पुत्रं नाद्राक्षं गतवासरे || पश्यामि तं तदद्यापि मन्मनोम्भोजभास्करम् ||२८|| ध्यात्वेति स द्विजः पूर्णा, इक्षुयष्टीर्नवोत्तमाः । तत्खण्डं चैक्रमादायो -त्सुकस्तत्सदनं ययौ ॥२९॥ निर्गच्छन्तं गृहादार्य - रक्षितं स निरैक्षत | किन्तूपालक्षयत् स्पष्ट - प्रकाशाभावतो न तम् ||३०|| कोऽसि त्वमिति भूदेवः सोऽप्राक्षीदार्यरक्षितम् || आर्यरक्षितनामाहमस्मीति स्माह सोऽपि तम् । ३२ ॥ अथावद्विजो मित्रपुत्र ! त्वां ह्यस्तने दिने || नाद्राक्षमिति तज्जातं दिनं मे वत्सरोपमम् ||३२|| इत्युक्त्वा सोमजं प्रेम्णा, समालिङ्गच द्विजो जगौ ॥ त्वन्निमित्तं मयाऽऽनीता, गृहाणेक्षुलता इमाः ॥ ३३ ॥ सोऽवादीदिक्षुसन्दोहो, यन्मातुर्दोंयतामयम् । अहं तु देहचिन्तायै, बहिर्गच्छामि | साम्प्रतम् ||३४|| मन्मातुश्चेति कथये - र्यगच्छन्नार्यरक्षितः । मामेव पूर्वमद्राक्षी - त्कलितं ललितेक्षुभिः ||३५|| तेनेत्युक्तस्तदम्बायै, | तत्सर्वे स द्विजोऽवदत् । तच्छ्रुत्वा रुद्रसोमापि, निपुणेति व्यचिन्तयत् ॥ ३६ ॥ यत्सूनोः प्रस्थितस्याभू - निमित्तमिदमुत्तमम् ॥ तदसौ नत्र पूर्वाणि, साधिकानि पठिष्यति ।। ३७ ।। दध्यौ विशुद्धधीरार्य - रक्षितोऽपि पथि व्रजन् || लप्स्येऽहं दृष्टिवादस्य, विभागान्नव साधिकान् || ३८ || अधेनुमदनं प्राप्तः सोमसुरित्यचिन्तयत् ।। अज्ञातचन्दनविधि-र्मध्ये गच्छाम्यहं कथम् ? ।। ३९ ।। तदिहाहं प्रवेक्ष्यामि, श्रमणोपासकः समम् || साधूनां वन्दनाचारं यथा तेभ्योऽवधारये ॥ ४० ॥ विमृश्येति क्षणं याव-द्वार्यस्थादार्यरक्षितः ॥
१ कमल । २
अध्य०२ ॥६९॥