SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 4% यनपत्रम् सः॥७॥ पुरलोकेन राज्ञा चा-ऽयमानं तं धनादिना ॥ दृष्ट्वा तदबन्धको हृष्ट-मानसा बह्वमानयन् ॥ ८॥ आबद्धतोरणं सद्यः || उचराध्य अध्य०२ पौरस्तन्मन्दिरं तदा ॥ रूप्यस्वर्णमणिधनु-प्रभृतिप्राभृतैर्भूतम् ॥९॥ अथार्यरक्षितो दध्यो, प्रमादाजननी निजाम् ।। यन्नाद्राक्षमहं पूर्व तद्विनीतस्य नोचितम् ॥१०॥ मद्वियोगादशां माता, कामप्याप्ता भविष्यति ॥ तदद्यापि निजां लक्ष्मी, दर्शयन् मोदयामि ताम् ॥ ११ ॥ ध्यात्वेति स द्रुतं दिव्य-वस्त्राभरणभूषितः ॥ अन्तर्गहमगात्स्वीयां, सवित्री प्रणनाम च ॥ १२ ॥ स्वागतं तव हे | पुत्रे- त्युदित्वा मौनमाश्रिता ॥ उदासीनेव सा त्वस्थात्, प्रेमान्तबहु विभ्रती ॥ १३ ॥ स्नेहोद्रेकं तदा मातुरपश्यन्नित्युवाच सः॥ चिरादेतं भक्तिमन्तं मातर्मा भाषसे न किम् ॥ १४ ॥ अथेत्थं रुद्रसोमाख्य-किमेभिः स्वान्यनाशकैः ॥ हिंसोपदेशकैः शास्त्र रधीतैनरकप्रदैः ॥ १५॥ एतेषां च प्रभावेण, त्वां घोरे दुःखसागरे । पतिष्यन्तं प्रपश्यन्त्याः , स्यादानन्दः कथं ? मम ॥ १६ ॥ * मद्वाचि प्रत्ययश्चेत्ते, भक्तिश्च मयि विद्यते ॥ स्वर्गापवर्गदं वत्स !, दृष्टिवादं तदा पठ॥१७॥ अथार्यरक्षितो दध्या-वपि लोकप्रमो-8 | दिना ॥ तेनाधीतेन किं ? येन, जननी मे न तुष्यति ॥ १८॥ ध्यात्वेत्यम्बां स पप्रच्छ, दृष्टिवादः क्व पठ्यते ॥ साऽप्यवादीष्टिवादो-ऽधीयते साधुसन्निधौ ॥१९॥ दर्शनानां विचारो यो, दृष्टिवादः स उच्यते ॥ तन्नामाऽप्यस्य शास्त्रस्य, दृश्यते सुन्दरान्वयम् । ॥२०॥ इत्यार्यरक्षितो ध्यायन् , जगाद जननीमिति ॥ अध्येध्येऽहं दृष्टिवादं, त्वदादेशवशंवदः ॥ २१॥ [युग्मम्] सङ्गस्यन्ते क्व है। पुनमें, दृष्टिवादस्य पाठकाः ॥ श्रुत्वेति रुद्रसोमा तं, माह हर्षोल्लसत्तनुः ॥ २२ ॥ त्वया विनीतपुत्रेण, सुपुत्रजननीष्वहम् ॥ नीता प्रथमतामेतं, मदादेशं चिकीर्षता॥२३॥ तद्गच्छ वत्स ! त्वरित -मिक्षुवाटमितो मम ॥ सूरीस्तोसलिपुत्राख्यान , स्थितांस्तत्र समाश्रय १ जननीं । DIECCANUAACCORG
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy