SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अध्य०२ + + व्याख्या-'परि' समन्तात् 'जीर्णैः' दुर्बलेः 'वस्वैः' कल्पादिभिः 'होक्खामित्ति' भविष्यामि 'अचेलकः' चलहीनोऽल्पदिन उत्तराध्य प्रभावित्वादेषां, प्राच्यस्य 'इति' शब्दस्य मिन्नक्रमस्येह सम्बन्धात इत्येतद्भिक्षुन चिन्तयेदिति योगः, 'अदुवनि' अथवा सचेलको भवि यनसूत्रम् ध्यामि, परिजीर्णवस्वं हि मां दृष्ट्वा कश्चिदुपासकः सुन्दराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत् , अयं भावः-न जीर्णचेलोऽन्यचेलानां ॥५९॥ लाभासम्भावनया दैन्यं लाभसम्भावनया वा प्रमोदं गच्छेदिति सूत्रार्थः ॥ १२ ॥ यतः| मूलम्-एगया अचेलओ होइ, सचेलओ वि एगया। एअंधम्महिअं णञ्चा, णाणी णो परिदेवए ॥१३॥ व्याख्या-'एकदा' जिनकल्पाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादि वस्त्रतया वाऽचेलको भवति. सचेलकश्चापि 'एकदा' स्थविरकल्पिकाद्यवस्थायां, ततः किमित्याह-एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वञ्च 'धर्महित' साधुधर्मोपकारकं ज्ञात्वा' अवबुध्य, तत्राऽचेलत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिना, सचेलकत्वस्य तु तथात्वमग्न्याद्यारम्भनिवारकत्वेनेति ध्येयं, ज्ञानी नो 'परिदेवयेत्' अचेलस्य मम शीतसम्पातसन्तापितस्य किमिदानीं शरणमिति न दैन्यमालम्बेतेति सूत्रार्थः।।१३. उदाहरणं सम्प्रदायश्चायमत्र, तथाहि अभूत्पुरे दशपुरे सोमदेवो द्विजाग्रणीः ॥ तस्य भार्याऽभवदुद्र-सोमाह्वा परमाहेती ॥१॥ तयोरभूतां द्वौ पुत्रौ, गुणरत्नमहो४ दधी ॥ तत्रार्यरक्षितो ज्येष्ठो, द्वितीयः फल्गुरक्षितः॥२॥ तत्राऽधीत्य पितुः पार्श्व, तद्विद्यामार्यरक्षितः ।। जगामाधिकविद्यार्थी, जपाटलीपुत्रपट्टनम् । ३॥ साङ्गवेदपुराणाद्याः, विद्यास्तत्र चतुर्दश ॥ अधीत्यागाद्दशपुरं, पुरं स खजनोत्सुकः ॥ ४ ॥ तमधीतच| तुर्वेद, ज्ञात्वाऽऽयातं नरेश्वरः ।। अभिगम्य गजस्कन्धे-ध्यारोप्यावीविशत्पुरे ॥ ५ ॥ कृत्वोचम्भितकेतुं त-नगरं नागरा अपि ॥ अभ्याययुस्तं सर्वेऽपि, प्रौढप्राभृतपाणयः॥६॥ सम्पूज्यमानः सर्वेण, पूर्जनेन नृपेण च ॥ जगाम स्वगृहं बाह्य-शालामध्यवसच्च + + +
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy