________________
उचराज्य
धनसूत्रम्
॥५७॥
प्रक्षेणपिण्डवत् || ५३ || [ युग्मम् ] इत्थमुष्णमघिसा स पश्चा - दत्तनन्दनमुनिस्त्रिदशोऽभूत् ॥ एवमेतदपरैरपि सम्यग् मर्षणीयमृषिभिर्निरमर्षैः ॥ ५४ ॥ इत्युष्णपरीषहे अरहन्नकमुनिकथा ॥ ४ ॥
अथ ग्रीष्मे उष्णं तदनु च वर्षासु दंशमशकाः स्युरिति तत्परीषदमाह
मूलम् - पुट्ठो अ दंसमसएहिं समरेव महामुनी ॥ णागो संगामसीसे वा, सूरो अभिहणे परं ॥ १० ॥
व्याख्या – 'स्पृष्टो' ऽभिद्रुतः 'चः' पूर्त्ती, दंशमशकैरुपलक्षणत्वाद्यूकामत्कुणादिमिश्च 'समरेवत्ति' सम एव शत्रुमित्रेषु तुल्यचित्त एव, प्राकृतत्वाद्विसर्जनीयस्य रेफः, महामुनिः 'णागो सङ्गामसीसे वत्ति' नाग इव करीब, वाशब्दस्येवार्थस्यात्र सम्बन्धात्, 'सङ्ग्रामशिरसि' रणमस्तके 'शूरः' पराक्रमी 'अभिहन्यात् ' जयेत् 'परं' शत्रु, अयं भावः - यथा शूरः करी, शरैर्व्यथ्यमानोऽपि तानगणयन् रणशि| रसि शत्रुं जयति, एवं मुनिरपि दंशाचैः पीड्यमानोऽपि भावविपक्षं क्रोधादिकं जयेदिति सूत्रार्थः ॥ १० ॥ कथं पुनर्भावरिपुं जयेदित्याहमूलम् -ण संतसेण वारिज्जा, मणंपिण पओसए । उत्रेह ण हणे पाणे, भुंजंते मंससोणिअं ॥ ११ ॥
व्याख्या—'न सन्त्रसेत्' नोद्विजेद्देशादिभ्य इति शेषः, 'न वारयेत्' न निषेधयेद्देशादीनेव तुदतोऽपि माभूदन्तराय इति, तथा 'मनः' चित्तं तदपि आस्तां वचनादि 'न प्रदूषयेत्' प्रदुष्टं कुर्यात्, किन्तु 'उवेहत्ति' उपेक्षेत औदासीन्येन पश्येत् एव न हन्यात् 'प्राणिनो' जीवान् 'भुञ्जानान्' भक्षयतो मांसशोणितं, किन्त्वाहाराधिनोऽमी भोज्यं चैषां मम वपुर्बसाधारणं च यदि भक्षयन्ति तर्हेि किमत्र प्रद्वेषेणेति चिन्तयेदिति सूत्रार्थः ॥ ११ ॥ उदाहरणञ्चात्र, तथाहि
१ "मांखण" इति भाषायाम् । २ सहनीयम् ।
अध्य०२
114011