________________
रणमुत्तमम् ॥२०॥ ध्यात्वेति सार्पयत्तस्मे, मोदकान् सुन्दरान् बहून् ॥ सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम् ॥ २१॥ एचराध्य पश्यन्ती स्निग्धया दृष्टया, सा प्रपच्छेति तं पुनः॥ युवत्वेऽपि त्वया तीव्र, किमर्थ व्रतमाददे ॥ २२ ॥ मुनिरूचे मया दीक्षा,
अध्य०१ यनसूत्रम्
४जग्रहे सौख्यहेतवे ॥ सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ॥ २३॥ यद्येवं तन्मया सा, भुङ्क्षव वैषयिकं सुखम् ।। पालिताया।
इयत्कालं दीक्षायाः फलमाप्नुहि ॥ २४ ॥ कुरूप-दुःस्थ-स्थविर-कर्कशाङ्ग-जनोचिताम् , इमां कष्टक्रियां मुञ्च, मुधा स्वं वश्चगस्व मा ॥ २५ ॥ इदं गृहमियं लक्ष्मी-रयं परिजनोऽखिलः ॥ सर्वमेतत्तवायत्तं, यदि त्वं स्वीकरोपि माम् ॥ २६ ॥ लावण्याढ्यमिदं रूपं, शरीरं चेदमावयोः ॥ अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ॥ २७ । भवेद्यदि च दीक्षायां, भवतोऽत्यन्तमाग्रहः । भुक्तभोगस्तदा भूयो, वाईके तां समाचरेः ॥ २८ ॥ श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य सः ॥ भग्नचित्तोऽभवत्को वा, कामिनीभिर्न । भिद्यते ॥२२॥ यदुक्तं-"दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः किम्पुनस्ताः ४ स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ? ॥३०॥" | ततः स्वीकृत्य तद्वाच-मवतस्थे स तद्गृहे । तया साकं यथाकामं, रेमे चात्यन्तरक्तया ॥ ३१ ॥ अथ गोचरचर्यायां, वसतौ चाऽ
रहन्नकम् ॥ अप्रेक्षमाणा मुनयो-ऽन्वेषयन्निखिले पुरे ॥ ३२ ॥ तत्प्रवृत्तिमपि क्वापि, नालभन्त तथाऽपि ते ॥ ततस्तन्मातुरार्याया| स्तं तद्वृत्तान्तमृचिरे ॥ ३३ ॥ वाता निशम्य तां पुत्र-शोकेनातिगरीयसा ॥ प्रणष्टचित्ता सा भूता-ऽऽविष्टेवोन्मत्ततामगात् ॥३४॥ | ततोऽरहन्नकेत्युच्चै-विलपन्ती सगद्गदम् ॥ सा पुरे सकलेऽभ्राम्य-दवृत्ता 'चेटकपेटकैः ॥ ३५ ॥ पन्थानमभिषिञ्चन्ती, नयनश्रवद-| | श्रुभिः ॥ तैमिश्रेणेव मोहेन, प्रस्खलन्ती पदे पदे ॥ ३६ ॥ दृष्टोरहन्नकः कापि, पुत्रो मे प्राणवल्लभः ? यं यं पश्यति तं तं च, |
x स्मितेन विकसितानि विभ्रमेण अभिवानि इक्षणानि यासां ताः । १ बालकसमूहैः । २ अन्धकारेण ।