SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 4 अध्य०२ ॥५२॥ | राज-गृहं पुनरूपाययुः ॥ ६ ॥ तदा च तुहिनव्यूहः, पीडयन् जगतिजनम् ॥ पत्रपुष्पफलोपेतान् , स्थाणून कुर्वन् महीरुहान् ॥७॥ उचराध्य | तटाकान्यपि सर्वाणि, स्त्यानयनाज्यवनिशि ॥ निरापदान् पक्षिपशु-श्वापदान् दारुतां नयन् ॥ ८॥ शीतकम्प्रदरिद्राणां, दन्तवाद्य यनरत्रम ४ ॥५२॥ प्रवादयन् ।। कृशानुसे विनं कुर्वन् , सर्व श्रोत्रियवजनम् ॥९॥ रुष्टानपि मिथोऽत्यर्थ, दम्पतीन परिरम्भयन् ।। हेमन्तर्गः ।। प्रववृते, विश्व हेममयं सृजन् ॥ १०॥ [चतुर्भिः कलापकम् ] हिमत्तौं तत्र वैभार-गिरेस्ते मुनयः पुरे आहारार्थ समाजग्मुः, प्रहरेहस्तृती. &यके ॥ ११ ॥ कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् ॥ पृथग् पृथग् न्यवर्त्तन्त, पुरमध्यान्महर्षयः ॥ १२॥ वैभाराद्रिगुफाद्वारे, | प्राप्तस्यैकस्य तेवथ ॥ द्वितीयस्य पुरोधाने, तृतीयस्य तदन्तिके ।।१३। तुर्यस्य तु पुरोपान्ते, चतुर्थः प्रहरोऽभवत् ॥ कायोत्सगै ततः कृत्वा, ते तत्रैवावतस्थिरे ॥ १४ ॥ [ युग्मम् ] तेष्वद्रिकन्दराद्वार-संस्थितस्य तपखिनः ।। उच्चैः स्थित्वादलग-च्छीतमत्यन्तदारुणम् ॥१५॥ पतत्तुहिनसम्पर्क-शीतलैः शैलमारुतैः ॥ कायश्चकम्पे तस्योच्च-नै किश्चिदपि मानसम् ॥ १३ ॥ स शीतवेदनां सम्यक्, सहमानो महामुनिः॥ यामिन्याः प्रथमे यामे, परलोकमसाधयत् ॥१७॥ उद्यानस्थस्य नीचैस्त्वा-च्छीतमल्पं किमप्यभूत ॥ ततो रजन्याः प्रहरे, द्वितीये स व्यपद्यत॥१८॥उद्यानपार्श्ववृत्तेस्तु, वृक्षाद्याश्रयतोऽलगत् ।। शीतमल्पं ततो यामे, स विपन्नस्तृतीयक।।१३॥ आसीदल्पतरं शीतं, तुर्यस्य नगरोष्मणा।।ततः स प्रहरे तुर्ये, परासुस्वमगान्मुनिः॥२०॥चत्वारोऽपि प्राज्यधेर्या मुनीन्द्राः, स्वर्ग प्रापुस्ते विषोति शीतम् ।। इत्थं सर्वैः साधुमिस्त्यक्तकामै-स्तत्सोढव्यं १२मुक्तिसंयुक्तिकामैः ॥२१॥ इति शीतपरीषहे साधुचतुष्कथा ॥३॥ हिमसमुहैः । २ "लुटु" इति भा० । ३ वृक्षान् । ४ घृतवत् । ५ 'आस्पदं स्थानम् ६ काष्टभावम् । • 'बद्धिः । “ पर्वतम् । ९ पर्वतपवनः । १. रात्रः। 11 मरणत्वम् । संयुक्तिः संयोगः । CAMESSAGACAUSACS
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy