________________
उत्तराध्य -
यनसूत्रम्
॥ २७६ ॥
।। २७६ ।।
णादिना वर्द्धयति, 'अधर्मो' निर्धर्मः सिद्बोधरूपतया इहपरलोकयोर्हितां प्रज्ञाम्-आत्मनोऽन्येषाञ्च सुबुद्धिं कुतर्कव्याकुलीकरणेन ५ अध्य० १७ हन्ति यः स आप्तमशाहा 'युद्ध हे' दण्डादिघातजनिते विरोधे 'कलहे' वाचिके विरोधे 'रक्तः' सक्तः ॥ अस्थिरासनः, 'कुक्कुची' हा स्यविकथादिचापल्यवान्, यत्र तत्र संसक्तसमजस्कादावपीत्यर्थः, निषीदति पीठादौ, अत एवाऽऽसने 'अनायुक्तो' अनुपयुक्तः ॥ सर जस्कपादः स्वपिति, कोऽर्थः ? संयमविराधनाभीरुताया अभावात् पादावप्रमृज्यैव शेते, 'शय्यां' वसतिं 'न प्रतिलेखयति' न प्रमार्जयति, 'संस्तारके' कम्बलादौ सुप्त इति शेषः, 'अनायुक्तः' "कुक्कुडिपायपसारण" इत्याद्यागमार्थानुपयुक्तः ॥ अथ तपोविषयं पापश्रमणमाह"दुद्धदहि" ति दधिदुग्धे विकृतिहेतुत्वाद्विकृती, उपलक्षणश्चैतद् घृताद्यशेषविकृतीनां, आहारयति 'अभीक्ष्णं' वारं वारं तथाविधकारणं विनापीति भावः, अत एवारतत्र 'तपःकर्मणि' अनशनादौ । अस्तमयति 'चः' पूरणे सूर्ये आहारयति 'अभीक्ष्णं प्रतिदिनमित्यर्थः, यदि चायं केनचिद्गीतार्थेन प्रेते यथाऽऽयुष्मन् ? किमेवमाहारतत्पर एव तिष्ठसि ? दुर्लभा खल्वियं धर्मसामग्री ताञ्च प्राप्य तपस्युधन्तुमुचितमिति, ततः किमित्याह- 'चोदितः' प्रेरितः प्रतिचोदयति, यथा दक्षस्त्वमुपदेशं दातुं न तु स्वयं विधातुं ! नो चेदेवं विदन्नपि किं न विकृष्टं तपोऽनुतिष्ठसीति ॥ 'आचार्यपरित्यागी' ते हि तपः कारयन्ति आनीतमपि चान्नादि ग्लानादिभ्यो दापयन्त्यतोऽत्यन्तमाहारलौल्यात्तत्परित्यागशीलः, 'परपाषण्डान्' "मृद्वी शय्या प्रातरुत्थाय पेया" इत्याद्युपदिशतः सौगतादीन् अत्यन्ताहार मसान् सेवते परपाषण्डवकर, तथा स्वच्छन्दतया गणाद्गणं षण्मासाभ्यन्तर एव सङ्क्रामतीति गाणङ्गणिकोऽत एव दुष्ट भूतो जातो 'दुर्भतो' दुराचारतया निन्यत्वं प्राप्त इत्यर्थः । 'स्वकं गेहूं' निजगृहं परित्यज्य परगेहे "बाबरे” त्ति 'व्यामियते' पिण्डादिलोभात्स्वयं तत्कृत्यानि विधते, 'निमित्तेन च ' शुभाशुभकथनादिना 'व्यवहरति ' द्रव्याधर्जयति । स्वजातिभिः निजबन्धुभिर्यः स्नेहादीयते पिण्डः स्वजातिषि
।। २७६ ॥