SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ।। २७५ ।। ॥। २७५ ।। चार्यादीन् 'खिसति' निन्दति 'बालो' विवेकविकलो यः स पापभ्रमणः ॥ आचार्योपाध्यायानां 'सम्यग् ' अवैपरीत्येन 'न परितप्यते ' न ततप्तिं विधत्ते तेषां वैयावृत्त्यादिचिन्तां न सम्यक्करोतीत्यर्थः, 'अप्रतिपूजको' जिनादीनां यथोचितप्रतिपत्तिपराङ्मुखो, यद्वा केनचिन्मुनिनोपकृतोपि न प्रत्युपकारकारी 'स्तब्ध' गर्वाध्मातो यः स पापश्रमणः ॥ इत्थमविनीतं पापश्रमणमुक्त्वा चरणविकलं तमेवाहसम्मर्दयन् 'प्राणान' प्राणिनो द्वीन्द्रियादीन् 'बीजानि' शाल्यादीनि 'हरितानि च' दूर्वादीनि, सर्वैकेन्द्रियोपलक्षणमेतत्, अत एवासंयतः " संजयमनमाणे " ति संयतमात्मानं मन्यमानोऽनेन च संविग्नपाक्षिकत्वमपि तस्य नास्तीत्युक्तं, शेषं प्राग्वत् ॥ 'संस्तारकं' कम्बलादिकं, 'फलक' दारुमयं, 'पीठम् ' आसनं, 'निषद्यां' स्वाध्यायभूमि, 'पादकम्बलं' पादपुञ्छनं, 'अममृज्य' रजोहरणादिना उपलक्षणत्वादमत्युपेक्ष्य च आरोहति यः स पापश्रमणः ।। " दवदवस्स" ति द्रुतं द्रुतं तथाविद्यालम्बनं विनापि सत्वरं 'चरति' मिक्षाचर्यादौ पर्यटति, प्रमत्त 'अभीक्ष्णं' पुनः पुनर्भवतीति शेषः, 'उल्लङ्घन' वत्सडिजादीनामधः कर्त्ता, 'चण्ड : ' क्रोधनश्चारभटवृत्तिश्रयणाद्वा शेषं प्राग्वत् ॥ प्रतिलेखयति प्रमत्तः सन्, 'अपोज्झति' यत्र तत्र निक्षिपति 'पादकम्बलं' पादपुञ्छनं, समस्तोपधेरुपलक्षणमेतत् स एवं प्रतिलेखनायामनायुक्तो - अनुपयुक्तः प्रतिलेखनाऽनायुक्तः ॥ प्रतिलेखयति प्रमत्तः सन्, यत्किञ्चिद्विकथादि 'निशम्य' श्रुत्वा तदाक्षिप्तचित भावः, गुरून् परिभवतीति गुरुपरिभावको नित्यं, अयं भावः - प्रतिलेखनादौ वितथं कुर्वन् गुरुभिर्नोदितस्तानेव वक्ति यथा स्वयमेवेदं कुरुत युष्माभिरेव वा वयमेवं शिक्षिताः ततो युष्माकमेवासौ दोष इत्यादि || 'बहुमायी' प्रभूतवञ्चनाप्रयोगवान्, 'प्रमुखरः' प्रकर्षेण मुखरो - असम्बद्धः, स्तब्धो लुब्धः 'अनिग्रहः' अविद्यमानेन्द्रियमनोनिग्रहः, 'असंविभागी ' कुक्षिम्भरित्वेन गुरुग्लानादीनां योग्यमशनादि न यच्छति, "अचिभते" ति गुर्वादिष्वपि अभीतिमान् । 'विवाद' वाक्कलहं 'चः' पूरणे, 'उदीरयति' उपशान्तमपि मर्मभाष अध्य०१७ ।। २७५ ॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy