SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ।। २५१ ।। ।। २५१ ॥ ॥ अथ पञ्चदशमध्ययनम् ॥ ।। अर्हम् ।। व्याख्यातं चतुर्दशमध्ययनं सम्प्रति सभिक्षुनामकं पञ्चदशमारभ्यते, अस्य चायं सम्बन्धः - इहान्नन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतया भिक्षोरेवेति तद्गुणा इहोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम् - मूलम् - मोणं चरिस्सामि समेच्च धम्मं, सहिए उज्जुकडे निआणच्छिन्ने । संथवं जहिज्ज अकामकामे, अण्णाएसी परिवए स भिक्खू ॥ १ ॥ व्याख्या–‘मौनं' श्रामण्यं चरिष्यामीत्यभिप्रायेणेति शेषः, 'समेत्य' प्राप्य 'धर्म' श्रुतचारित्रभेदं, 'सहितो' युक्तोऽन्यसाधुभिर गम्यं, न त्वेकाकी, एकाकिभावस्यागमे निषिद्धत्वात्, यदुक्तं - "इकस्स कओ धम्मो, सच्छंदगई मइप्पयारस्स ॥ किं वा करेइ इको, परिहरउ कहमकज्जं वा ? ॥ १ ॥" तथा 'ऋजुकृतः' अशठानुष्ठानः “निआणछिन्ने” त्ति छिन्नम् -अपनीतं निदानं - विषयद्यद्यभिष्वङ्गरूपं येन स छिन्ननिदानः व्यत्ययस्त्विहोत्तरत्र च प्राकृतत्वात् 'संस्तवं' मात्रादिभिः परिचयं 'जह्यात्' त्यजेत् 'अकामकामः ' न कामाभिलाषी, अज्ञातः- तपस्वितादिगुणैरेषयते ग्रासादिकमित्येवशीलोऽज्ञातैषी 'परित्रजेद्' अनियतविहारेण विहरेत् "स भिक्खु"त्ति य एवंविधः स भिक्षुरनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुतानिमित्तमिति सूचितमिति सूत्रार्थः ॥ १ ॥ सिंहतया विहारमेव विशेषत आह अध्य०१५ १ ।। २५१ ।।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy