________________
उत्तराध्य
यनसूत्रम्
॥२५२ ॥
AACAॐॐ
मूलम्-राओवरयं चरिज लाढे, विरए वेअविआयरक्खिए ।
अध्य०१५ पण्णे अभिभूय सवदंसी, जे कम्हि वि न मुच्छिए स भिक्खू ॥२॥ व्याख्या- "राओवरयं" ति उपरतरागं यथा स्यात्तथा 'चरेद्' विहरेत् "लाढे" ति सदनुष्ठानतया प्रधानः, 'विरतो' असंयमानिवृत्तो 'वेदविद्' आगमवेदी "आयरक्खिए"त्ति आत्मा रक्षितो दुर्गतेर्येन स आत्मरक्षितः, यद्वा आया:-सम्यक्त्वादिलामा रक्षिता येन स आयरक्षितः 'पाज्ञो' हेयोपादेयबुद्धिमान, अभिभूय परीषहोपसर्गानिति शेषः, सर्व-प्राणिवर्गमात्मवत्पश्यतीति सर्वदर्शी, यः कस्मिश्चित्सचित्तादिवस्तुनि न मच्छितः स भिक्षुरिति सूत्रार्थः ॥ २ ॥ तथा
मूलम्-अक्कोसवहं विइत्तु धीरे, मुणी घरे लाढे निच्चमायगुत्ते ।
अवग्गमणे असंपहिठे, जो कसिणं अहिआसए स भिक्खू ॥३॥ व्याख्या-आक्रोशश्च वधश्च आक्रोशवधं तद् 'विदित्वा' स्वकृतकर्मफलमेतदिति मत्वा 'धोरो' अक्षोभ्यः मुनिश्चरेदपतिबद्धविहारेण "लाढे" ति प्राग्वत्, 'नित्यं' सदा आत्मा गुप्तो-रक्षितोऽसंयमस्थानेभ्यो येन स तथा, अव्यग्रम्-असमञ्जसचिन्तोपरतं मनो यस्य स तथा, 'असम्पहृष्टः' आक्रोशदानादिषु न सम्पहर्षवान् , अमृन्याक्रोशवाक्यानि कर्मक्षयहेतुतया ममानन्दाय जायन्ते परमयं वराको मुनीनाशात्य कथं भविष्यतीत्यादिकमप्यजल्पन्नित्यर्थः, यः 'कृत्स्नं' समस्तमाक्रोशवधम् 'अध्यास्ते' सहते स भिक्षुरिति सूत्रार्थः॥ किश्च
IP॥ २५२ ॥ मलम्-पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं ।
BADRES-ॐॐॐ-CA
२५२ ॥