________________
उत्तराध्य
यनसूत्रम् ॥ २४९
।। २४९ ॥
इत्याह-मम उपलक्षणत्वात्तत्र च हस्तं हे आर्य ! आगताः स्ववशा इत्यर्थः, 'वयं च' वयं पुनः सक्ताः कामेष्वेवंविधेष्वपि तदहो मोहविलसितमिति भावः । यतः एवं ततो भविष्यामो यथा 'इमे' पुरोहितादयः, अयं भावः - यथामीमिश्चञ्चलत्वं वीक्ष्यामी त्यक्तास्तथा वयमपि त्यक्षामः इति ।। नन्वस्थिरा अपि कामाः सुखहेतवस्तत्किं त्यज्यन्ते ? इत्याह- 'सामिषं ' पिशितरूपामिषयुक्तं 'कुललं' गृधं शकुनिकां वा दृष्ट्रा 'बाध्यमानं' पीड्यमानं विहगान्तरैरिति गम्यते, 'निरामिषं च तमेव निर्भयं वीक्ष्येति शेषः, 'आमिषं' धनधान्यादिसङ्गहेतुं सर्वमुज्झित्वा ‘विहरिष्यामि' अप्रतिबद्ध विहारेण 'निरामिषा' निःसङ्गा ॥ उक्तानुवादेनोपदेष्टुमाह – 'गृधोपमान्' सामिषगृसमान् 'तुः' पूर्त्ती, ज्ञात्वा "गं" वाक्यालङ्कारे, कामयन्ते - शब्दादीन वाञ्छन्तीति कामाः - विषयाभिलाषिणस्तान् संसारवर्द्धनान्, "उरगो सुवण्णपासेव” त्ति उरग इव 'सुपर्णपार्श्वे ' गरुडाभ्यर्णे 'शङ्कमानो' भयत्रस्तः 'तनु' स्तोकं यतनयेत्यर्थः 'चरेः' क्रियासु प्रवथाः, यथा गरुडोपमैर्विषयैर्न वाध्यसे तथा यतस्वेति भावः ॥ ततश्च - नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भावःयथा हस्ती बन्धनवस्त्रां छित्वात्मनो 'वसतिं ' विन्ध्याटवीं व्रजत्येवं त्वमपि कर्मबन्धनं छित्वा आत्मनः शुद्धजीवस्य वसतिम्-आश्रयं मुक्तिं व्रजेः, अनेन दीक्षायाः फलमुक्तं, एवमुपदिश्योपसंहरति । 'एतद्' यन्मयोक्तं 'पथ्यं' हितं 'महाराज !' इषुकार ! इत्येतन्मया श्रुतं साधुभ्यो न तु स्वधियैवोच्यत इति सूत्रद्वादशकार्थः ।। ३७-३८-३९-४०-४१-४२-४३-४४-४५-४६-४७-४८ ॥ एवं च तद्द्विरा प्रतिबुद्धो नृपस्ततो यत्तौ द्वावपि चक्रतुस्तदाह
मूलम् - चइत्ता विउलं रज्जे, कामभोगे अ दुच्चए । निविसया निरामिसा, निन्नेहा निष्परिग्गहा ॥४९॥ सम्मं धम्मं विआणित्ता, चिच्चा कामगुणे वरे । तवं पगिज्झ जहक्खायं, घोरं घोरपरक्कमा ॥५०॥
अध्य०१४
॥ २४९ ॥