________________
उत्तराध्य
यनसूत्रम् ।। २४८ ॥
।। २४८ ।।
न विद्यते अन्यत् "इहेह" त्ति इहलोके इह च मरणे किञ्चित्राणमिति सम्बन्धः, ततो धर्म एव विधेयो विद्वद्भिरिति भावः ॥ यतो धर्मादिना न त्राणं ततः- नाऽहं ' रमे ' रतिमवामोमि “पक्स्विणि पंजरे व" त्ति पक्षिणीव पञ्जरे, अयं भावः - यथाऽसौ दुःखदायिन पञ्जरे रतिं न प्राप्नोति एवमहमपि जरामरणाद्युपद्रवविद्रुते भवपञ्जरे । अत एव "संताण छिन्न" ति 'छिन्नसन्ताना' मक्रमाद्विनाशितस्त्रेहसन्ततिः चरिष्यामि 'मौनं' मुनिभावं, 'अकिञ्चना' हिरण्यादिकिञ्चनरहिता, ऋजु-मायारहितं कृतम् - अनुष्ठितं यस्याः सा ऋजुकृता, निष्क्रान्ता आमिषाद् - विषयादेर्निरामिषा, परिग्रहारम्भावेव जीवदूषणाद्दोषौ ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता, सूत्रे चैवमुपन्यासः प्राकृतत्वात् ॥ तथा — दवाग्निना यथाऽरण्ये दद्यमानेषु जन्तुषु 'अन्ये' 'सवाः' अविवेकिनः प्रमोदन्ते रागद्वेषवशङ्गताः । एवमेव वयं 'मूढाः' मोहवशगाः कामभोगेषु मूच्छिताः दह्यमानं न बुध्यामहे रागद्वेषाग्निना 'जगत्' प्राणिसमूहं, यो हि सविवेको रागादिरहितश्च स्यात् स दावाग्निना दह्यमानानन्यसत्त्वान् दृष्ट्वा स्वरक्षणोपायपर एव स्यान्न तु मोदते, यस्तुं मूर्खो रागादिमांच स आयतिमचिन्तयन्मोदते, ततो वयमपि भोगात्यागादज्ञानिन एवेति भावः । ये त्वेवंविधा न स्युस्ते किं कुर्युरित्याह – भोगान् शुक्त्वा पुनरुत्तरकालं वान्त्वा च लघुर्वायुस्तद्भूताः सन्तो विहरन्तीत्येवं शीला लघुभूतविहारिणोऽमतिबद्धविहारिण इत्यर्थः, 'आमोदमानाः' प्रमोदं यान्तस्तथाविधानुष्ठानेनेति शेषः, गच्छन्ति विवक्षितस्थानमिति शेषः, क इब ? मिन्नक्रमस्य इवशब्दस्येह योगात् 'द्विजा इव' पक्षिण इव 'कामक्रमाः' स्वेच्छाचारिणः, यथा हि द्विजा यत्र यत्र रोचते तत्र तत्र मोदमाना भ्राम्यन्ति, एवं मुनयोप्यभिष्वङ्गाभावाद्यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीति भावः । पुनरर्थादिषु रागं निराकर्तुमाह – 'इमे' प्रत्यक्षाः शब्दादयो विषयाः 'चः ' अप्यर्थे भिन्नक्रम, ततो 'बद्धा अपि' नियन्त्रिता अपि बहूपायै रक्षिता अपीत्यर्थः, स्पन्दन्ते' अस्थितिधर्मतया कम्पन्ते, ये कीदृशाः ?
|| अध्य० १४
।। २४८ ॥