________________
उत्तराध्ययनसूत्रम्
इमे अ बद्धा फंदंति, मम हत्थजमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥ १५ ॥ सामिसं कुललं दिस्स, बज्झमाणं निरामिसं । आमिसं सर्व्वमुज्झित्ता, विहरिस्तामो निरामिसा ॥ ४६ ॥ ॥ २४७ ॥ गिद्धोवमे उनच्चा णं, कामे संसारवगुणे । उरगो सुवपणपासे वा, संकमाणो तणुं चरे ॥ ४७ ॥ नागोव बंधणं छित्ता, अप्पणो वसई वए। एअं पत्थं महारायं, इसुआरेति मे सुयं ॥ ४८ ॥
व्याख्या–पुरोहितं तं सस्रुतं सदारं श्रुत्वा 'अभिनिष्क्रम्य' गृहान्निर्गत्य महाय भोगान् प्रत्रजितमिति शेषः, 'कुटुम्बसारं' धनधान्यादि, विपुलं च तदुत्तमं च विपुलोत्तमं तत्पुरोहितत्यक्तं गृहन्तमिति शेषः, “रायं” ति राजानं 'अभीक्ष्णं' पुनः पुनः 'समुवाच' सम्यगुवती 'देवी' कमलावती नाम्नी । किं तत् ? इत्याह- 'वान्ताशी' वान्तभोजी पुरुषो य इति शेषः, हे राजन् ! न स भवति प्रशंसितो धीधनैरिति शेषः, कथमहं वान्ताशी ? इत्याह-यतो ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि त्यक्तधनं हि गृहीतोज्झितत्वेन वान्तकल्पं, तच्चादित्सुर्भवानपि वान्ताश्येव, न चैतद्भवादृशामुचितमित्याशयः ॥ किञ्च - सर्व जगद्यदि “ तुहं" ति तव आयत्तमिति शेषः, सर्वे वापि धनं भवेत् सर्वमपि तत् 'ते' तब 'अपर्याप्तम्' अशक्तमिच्छां पूरयितुमिति शेषः, अपर्यवसितत्वात्तस्याः । तथा नैव जरामरणाद्यनोदाय 'तदि' ति सर्वं जगद्धनं वा तवेति ॥ किञ्च मरिष्यसि राजन् ! यदा तदा वा काले, जातस्य ध्रुवं मृत्यु|र्यदुक्तं - "कचित्सखे ! त्वया दृष्टः, श्रुतः सम्भावितोऽथवा ॥ क्षितौ वा यदि वा स्वर्गे, यो जातो न मरिष्यति ? ॥ १ ॥।” मनोरमान् कामगणान 'प्रहाय' त्यक्त्वा न त किविया सहाऽऽयास्यतीति भावः । ततः "एगो हु" ति एक एव धर्मो नरदेव ! 'त्राणं शरणं,
।। २४७ ।।
अध्य०१४
॥ २४७ ॥