________________
यनसूत्रम्
उत्तराध्य- ||मरिष्यामि, “सो हु" त्ति स एव 'काङ्क्षति' वाञ्छति 'श्वः' आगामिदिने स्यादिदं कार्यमिति शेषः ॥ ततश्च - अद्यैव धर्म प्रतिपद्यामहे । अध्य० १४ “जहिं” ति आर्षत्वाद्यं धर्मं 'प्रपन्नाः' आश्रिता न पुनः “भवामो" त्ति 'भविष्यामः ' न पुनर्जन्मजरामरणाद्यनुभविष्यामस्तदभावहे - तुत्वाद्धर्मस्य । किञ्च-‘अनागतम्' अमाप्तं नैव चास्ति 'किञ्चित् सुन्दरमपि वस्तु विषयसौख्यादि, सर्वभावानामनन्तशः प्राप्तत्वात्, अतः श्रद्धा - अभिलाषः (तया) क्षमं - युक्तं धर्मानुष्ठानं कर्तुमिति शेषः, "णे" त्ति 'नः' अस्माकं “विणइत्तु" ति व्यपनीय 'राग' स्वनाभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ।। २७-२८ ।। इदञ्चाकर्ण्य जातत्रताशयो भृगुर्ब्राह्मणीं धर्मविघ्नकरीं मत्वेदमाह
॥ २४२ ॥
॥ २४२ ॥
मूलम् - पहीणपुत्तस्स हु नत्थि वासो, वासिहि ! भिक्खायरिआइ कालो ।
साहाहिं रुक्खो लहई समाहिं, छिन्नाहिं साहाहिं तमेव खाणुं ॥ २९ ॥ मूलम् - पंक्खाविहूणो व जहेह पक्खी, भिचविहूणो व रणे नरिंदो । विवन्नसारो वणिओ व पोए, पहीणपुत्तोम्हि तहा अहं पि ॥ ३० ॥
व्याख्या - " कहीणपुत्तस्स” त्ति पुत्राभ्यां महीणः त्यक्तः पुत्रप्रहीणस्तस्य प्राकृतत्वात् पूर्वापरनिपातः, 'हु:' पूरणे नास्ति 'वासः' अवस्थानं मम गृह इति शेषः, हे वासिष्ठ ! वसिष्ठगोत्रोद्भवे ! 'भिक्षाचर्यायाः ' व्रतस्य 'काल:' प्रस्तावो वर्त्तते इति गम्यं । किमित्येवम् ? अत आह— शाखाभिर्वृक्षो लभते 'समाधि' स्वास्थ्यं, छिन्नाभिः शाखाभिः 'तमेव' वृक्षं स्थाणुं जनो वदतीति शेषः, यथा हि शाखा द्रुमस्य शोभा संरक्षणादिना समाधितत्र एवं ममाप्येतौ सुतौ तद्रहितश्चाहमपि स्थाणुकल्प एवेति भावः । किञ्च - पक्षविहीनो
॥ २४२ ॥