SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ उचराध्य -*- * * ABGANA | जस्य 'स्वकर्मशीलस्य यजनाद्यनुष्ठानरतस्य 'पुरोहितस्य' शान्तिकर्तुः “सरित्तु"त्ति स्मृत्वा 'पौराणिकी' चिरन्तनीं 'तो'ति सभिवेशे 'जाति' जन्म जातिस्मरणं प्राप्येत्यर्थः। तथा 'सुचीर्ण' निदानादिनानुपहतत्वेन सम्यक् सेवितं तपः संयमं च स्मृत्वा कामगुणे चिरक्ताविति योग इति सूत्रद्वयार्थः ॥ ४-५ ।। ततस्तौ यदकार्टी तदाहमूलम् ते कामभोगेसु असज्जमाणा, माणुस्सएसं जे आवि दिव्वा । मोक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इमे उदाहु ॥ ६ ॥ व्याख्या-'तो' पुरोहितसुतौ कामभोगेषु "असज्जमाण"त्ति 'असजन्तौ' सङ्गमकुर्वन्तौ 'मानुष्यकेषु' मनुष्यसम्बन्धिषु ये चापि 'दिव्याः' देवसम्बन्धिनस्तेषु चेति प्रक्रमः, मोक्षाभिकानिणौ 'अभिजातश्रद्धौ' उत्पन्नतस्वरुची 'तातं' पितरमुपागम्य 'इदं वक्ष्यमाणं all "उदाहु" 'उदाहरता' उक्तवन्ताविति सूत्राक्षरार्थः ॥ ६ ॥ भावार्थस्त्वेषां स्त्राणां कथानकादवसेयस्तत्सम्प्रदायश्चार्य, तथाहि8 चित्रसम्भूतयोः पूर्व-भवे यो सुहृदावुभौ ॥ अभूतां वल्लवौ साधु-सेवाध्वस्तविपल्लवी ॥१॥ तावपि व्रतमाराध्या-भवतां भा मुरौ सुरौ । व्रतं हि चेन मोक्षाय, तर्हि स्वर्गाय जायते ॥ २॥ क्षितिप्रतिष्ठितपुरे, तावभूतां ततश्युतौ ॥ सोदराविभ्यतनयो, सोदरावाश्विनाविव ॥ ३ ॥ इभ्यपुत्रास्तयोस्तत्र. चत्वारोऽन्यमहर्द्धिकाः ॥ जज्ञिरे मुहृदः पुण्य-शालिना सुलभा हि ते ॥४॥ उपभुज्य चिरं भोगां-स्ते पडप्यन्यदा मुदा ॥ श्रुत्वा धर्म गुरूपान्ते, पावजन् विजितेन्द्रियाः ॥ ५॥ पालयित्वा चिरं दीक्षामधीत्य विविधं श्रुतम् ॥ विधायानशनं प्रान्ते, ते विपद्य महर्षयः॥ ६ ॥ विमाने पद्मगुल्माह्वे, प्रथमत्रिदिवस्थिते ॥ जजिरे ||॥२३॥ * * 4 ॥२३॥ - 4- %
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy