________________
राज्यपनपत्रम् ॥२२२॥
॥२२२॥
तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं । भज्जा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसेकमंति व्याख्या- 'यथे' त्यौपम्ये इहलोके 'सिंहो' मृगारिः 'बा' इति पूरणे 'मृगं' हरिणं 'गृहीत्व' प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं 'मृत्यु' यमो 'नरं' मानवं "नेइ हु"चि नयत्येव, 'अन्तकाले' आयुः क्षयावसरे, न च तख मृत्युना नीयमानस्य माता वा पिता वा भ्राता वा 'काले तस्मिन्' जीवितान्तरूपे अंशं प्रक्रमाज्जीवितस्य भागं धारयन्ति- मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ स्वजनसर्वस्वं हरति स्वधनदानात्स्वजनैस्तद्रक्ष्यते, नैवं स्वजीवितांशदानेन तज्जीवितं धार्यते इति भावः ॥ २२ ॥ न च जीवितारक्षणेपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह-न 'तस्य' मृत्युना नीयमानस्य 'दुखं' शारीरं मानसं वा विभ जन्ते' विभागीकुर्वन्ति 'जातयो' दूरवर्त्तिनः स्वजनाः, न 'मित्रवर्गाः ' सुहृत्समूहाः, न 'सुताः' पुत्राः, न 'बान्धवाः' निकटवर्त्तिनः स्वजनाः, किन्तु एकः स्वयं 'प्रत्यनुभवति' वेदयते दुःखं, किमिति ? यतः - कर्तारमेव अनुयाति कर्म ।। २३ ।। इत्थमशरणभानामुक्त्वा एकत्व भावनामाह - त्यक्त्वा 'द्विपदं च' भार्यादि 'चतुष्पदं च' इत्यादि 'क्षेत्राम्' इक्षुक्षेत्रादि 'गृह' धवलगृहादि 'धनं' कनकादि, 'धान्यं च ' शाल्यादि सर्वे, स्वकर्मैवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः 'अवशः' अस्वतन्त्रः प्रयाति 'परम्' अन्यं 'भवं' जन्म 'सुन्दरं ' स्वर्गादिकं 'पापकं वा' नरकादिकं स्वकृतकर्मानुरूपमिति भावः ॥ २४ ॥ अथ जीवत्यक्तशरीरस्य का वार्था ? इत्याह- ' तद्' इति यत्तेन त्यक्तं 'एककं' अद्वितीयं तुच्छम् - असारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि 'चितिगतं' चिताप्राप्तं दग्ध्वा 'तुः' पूरणे 'पावकेन' अग्निना, भार्या च पुत्रोपि च ज्ञातयश्च दातारमन्यं 'अनुसङ्क्रामन्ति' उपसर्पन्ति, ते हि गृहमनेनापाचन मिति तहिर्निष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा च लौकिक कृत्यामि, आक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थ
अध्य०२३
URRRH