________________
उचराष्पः पनपत्र ॥२२॥
RECTROSAROK-
मूलम् सो दाणिसिं राय महाणुभागो, महिडिओ पुण्णफलोववेओ।
चहत्तु भोगाइं असासयाई, आयाणहेऊ अभिनिक्खमाहि ॥ २० ॥ | व्याख्या-'हे नरेन्द्र! चक्रवर्तिन् ! जातिः 'अधमा' निकृष्टा नराणां मध्येऽभूदिति शेषः, श्वपाकजाति "दुहओ"ति द्वयोरप्यावयोर्गतयोः अयं भावः-यदाऽऽवां श्वपाकजातावुत्पनौ तदारयोः सर्वजनगहिंता जातिरासीत् । कदाचिचां प्राप्यापि अन्यत्रोषितौ स्यामित्याह-यस्यां 'वयमित्यावां, प्राकृतत्वाबहुवचनं, सर्वजनस्य 'द्वेष्यो' अप्रीतिकरौ "वसी"ति 'अवसाव' उषिताविति यावत् , श्वपाकनिवेशनेषु चाण्डालगृहेषु ॥ १८॥ कदाचित्तत्रापि कलाविशेषादिना अहीलनीयौ स्यातामित्याह-तस्यां च 'जातो |श्वपचसम्बन्धिन्यां, 'तुः विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैच पापिका-कुत्सिता तस्यां "वुच्छ"त्ति उषिती 'म' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य 'जुगुप्सनीयौ' हीलनीयौ "इह"ति अस्मिन् जन्मनि, 'तुः' पुनरर्थः, तत इह पुनः 'कर्माणि' शुभानुष्ठानानि "पुरेकडाई"ति पुराकृतानि शुभजात्यादेनिंबन्धनमिति शेषः, ततो जातप्रत्ययः पुनरपि तदर्जनायैव यत्नः कार्यो न तु विषयामिम्वङ्गव्याकुलैरेव स्थेयमित्याशयः॥१९॥ एतदेवदर्शयति-'स' इति यः सम्भूतमुनिः पूर्वमासीत् स त्वं | "दाणिसिं"ति इदानीं रांजा महानुभागो महर्द्धिकः पुण्यफलोपपेतश्च सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः, किं कृत्वा ? इत्याहत्यत्वा भोगानशाश्वतान, आदीयते-गृह्यते सद्विवेकरित्यादानः-चारित्रधर्मस्तद्धेतोः 'अभिनिष्काम' आभिमुख्येन प्रव्रज, न हि गृहस्थतायां सर्वचारित्रसम्भव इति सूत्रत्रयार्थः॥२०॥ इत्थमकरणे को दोषः ! इत्याह
॥२२०॥