________________
NEC
उत्तराभ्ययनसूत्रम् ॥४६॥
॥४६॥
वैयावृत्यं तदेतत्ते, करिष्यामो वयं मुदा ॥ तदाकये जगौ हस्ति-मित्रर्षिः सत्त्वसेवधिः ॥१०॥ सत्यमेतत्परमहं, प्राप्तकालोऽस्मि साम्प्रतम् ॥ तन्मामुत्पाठ्य मा यूयं, मुधा बाधामवाप्स्यथ! ॥ ११॥ किश्चात्र श्वापदाकीणे, प्रचुरोपद्रवे बने । सर्वेषां त्यक्तसार्थानां, न स्थातुमुचितं चिरम् ।। १२ । इत्युक्त्वाऽनशनं कृत्वा, क्षमयित्वा च संयतान् ।। स सद्यः प्रेषयामास, सह सार्थेन साग्रहम् ॥१३॥ स्थातुकाममपि स्नेहा-सहादायाथ तत्सुतम् ॥ प्रस्थिता मुनयो हस्ति-मित्रस्त्वस्थाद्गुहान्तरे ॥ १४ ॥ दूरं गत्वापि तत्पुत्रो, वश्चयित्वा मुनीनगात् ॥ पितुः समीपं स्नेहो हि, निर्मन्त्राकर्षणं मतम् ॥ १५॥ ततस्तातोऽवदत्पुत्र !, न शोभनमदः कृतम् ॥ | मुनीन् विमुच्य मत्पार्श्व-मविमृश्य यदागमः ॥ १६ । प्रासुकानोदकादीनां, दाता नास्तीह कोऽपि यत् ॥ 'क्षुत्तृषाविवशस्तस्मा| त्वमप्यत्र विपत्स्यसे! ॥ १७॥ ततः पुत्रोऽवदत्चात !, यद्भाव्यं तद्भवत्विह ॥ परमस्यामवस्थायां, मुक्त्वा वो न बजाम्यहम् । हस्तिमित्रोऽथ तत्रैव, दिवसे वेदनाकुलः ।। स्मृतपञ्चनमस्कारो, विपंद्याजनि निर्जरः ॥ १९ ॥ विपन्नमपि जीवन्तं, सुतो मोहाद्विवेद | तम् ।। प्रयुक्तावधिरज्ञासी-सुरोऽपि प्राग्भवं निजम् ॥ २० ।। अद्राक्षीच वपुः खीयं, तत्रस्थं तनयञ्च तम् ॥ ततस्तत्कृपया खाङ्गे, प्रविश्येति सुरोऽब्रवीत् ॥ २१ ॥ भिक्षायै वत्स! गच्छ त्वं, सोऽवादीत् क्क बजाम्यहम् ॥ उवाच निर्जरो याहि, भूरुहेषु वटादिषु टू ॥ २२ ॥ तद्वासिनो जनास्तुभ्यं, प्रदास्यन्त्यशनादिकम् । तत्प्रपद्य ययौ सोऽपि, मुग्धात्मा भूरुहामधः ॥ २३ ।। धर्मलाभ इति | प्रोच्चैः, प्रोच्य तत्राथ तस्थुषे ॥ तस्मै भिक्षामदाबृक्षा-निर्गत्यालङ्कृतः करः ।। २४ ॥ इत्थं भिक्षां ददौ तस्मै, हस्तिमित्रामरोऽन्वहै हम् ॥ कृताहारश्च तं स्नेहा-द्वातयामास सर्वदा ॥ २५ ॥ देशे भोजकटस्याथ, जज्ञे दुर्भिक्षमुल्वर्णम् ॥ ततस्तत्राभवद्भिक्षा, भिक्षुणा
विवशः व्याप्तः । २ मृत्वा ।। मृतम् । ४ भयङ्करम् ।
%94%AC+