________________
+++++
44545%95
अध्य०२
+
+++
व्याख्या-कालो कारकजङ्घा, तस्याः पर्वाणि कालीपर्वाणि, तसङ्काशानि तत्सदृशानि तपःशोषितमांसशोणिततयाऽङ्गानि बाहुचराज्ययनस्त्रम्
नवादीनि यस्य स कालीपर्वसङ्काशाङ्गः, सूत्रे तु व्यत्ययः प्राकृतत्वात् । अत एव कृशः कृशशरीरः, धमनीभिः शिराभिः सन्ततो ॥४५॥ दिव्याप्तः, इदृशावस्थोऽपि मात्रज्ञः परिमाणवेदी, नत्वतिलौल्यादतिमात्रोपभोगी, कस्येत्याह-अशनमोदनादि, पानं सौवीरादि, तयोः
समाहारेऽशनपानं, तस्य । तथा अदीनमना अनाकुलचित्तश्चरेत् संयममार्गे यायात् । अयं भावः, अत्यन्तं क्षुधापीडितोऽपि साधुर्नव| कोटोशुद्धमप्याहारं प्राप्य न लौल्यादतिमात्रं भुञ्जीत, तदप्राप्तौ च न दीनत्वमवलम्बेतेत्येवं क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ॥३॥ उदाहरणश्चात्र, तथाहि-7 ___ अस्त्यत्र भरते स्वर्ग-जयिन्युज्जयिनी पुरी ॥ हस्तिमित्राभिधः श्रेष्ठी, तत्राभूद्धरिभूतिमान् ॥ १ ॥ सौभाग्यसेवेधिदक्षावधिस्तस्य च वल्लभा । अकाण्ड एवानियत, स्वप्राणेभ्योऽपि वल्लभा ॥ २॥ संसारासारतां ध्यायं-स्ततो वैराग्यवानसौ ॥ प्रावाजी हस्तिभूत्याह्व-पुत्रयुक् साधुसन्निधौ ॥ ३ ॥ अन्यदा तावुज्जयिन्याः, प्रस्थिती सह साधुभिः ॥ प्रति भोजकटं यान्ता-चरण्यानीमवापतुः॥४॥ हस्तिमित्रमुनेस्तत्र, मर्माभित्कण्टको महान् ।। भग्नः पादतले तेन, पुरो गन्तुं स नाशकत् ॥५॥ ततः स तद्वयथापूरैः, प्रापितः प्राणसंशयम् ॥ स्वसन्निधिस्थितान् साधू-नभ्यधादिति धीनिधिः ॥६॥ यूयं व्रजत कान्तार-पारश्च प्राप्नुत द्रुतम् ॥ अहं विहैवानशनं, करिष्ये गन्तुमक्षमः ॥ ७॥ तच्छुत्वा मुनयः प्रोचु-हस्तिमित्र ! विषीद मा त्वां सहोत्पाट्य नेष्यामो, मोक्ष्यामो | न पुनर्वने ॥ ८॥ धर्मकृत्येषु सारं हि, वैयावृत्यं जगुर्जिनाः ॥ तत्पुनानसम्बन्धि, विना पुण्यं न लभ्यते ॥ ९॥
। भूतिः समृद्धिः । २ सेवधिः भण्डारः ।
++
+++++
+14
++++