________________
*
तावेव परीषहः (१९) प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः (२०) ज्ञानं मत्यादि, तदभावश्चाज्ञानम् (२१) दर्शनं सम्यग्दर्शनम् , है उत्तराभ्य-|8| तदेव विचित्रमतश्रवणेऽपि सम्यक् परिषद्यमाणं निश्चलतया धार्यमाणं परीपहो दर्शनपरीषहः (२२) इत्थं नामतः परीपहानुक्त्वा |
अध्य०२ यनरत्रम् स्वरूपतो विवक्षुस्तानाह
॥४४॥ ॥४४॥
मूलम्-परीसहाणं पविभत्ती, कासवेणं पवेइआ ॥ तं भे उदाहरिस्सामि, आणुपुट्विं सुणेह मे ॥१॥
व्याख्या--परीपहाणां पूर्वोक्तानां प्रविभक्तिः पृथक्वरूपतारूपः प्रविभागः काश्यपेन श्रीमहावीरेण प्रवेदिता प्ररूपिता, तां| परीषहप्रविभक्तिं 'मेत्ति' भवतां उदाहरिष्यामि प्रतिपादयिष्यामि आनुपूर्व्या क्रमेण शृणुत हे शिष्याः! यूयमिति शेषः, मे ममोदा* हरतः सकाशादिति सूत्रार्थः ॥ १॥ इह च "छुहासमा वेअणा नत्थि" इति वचनात् परीषहाणां मध्ये क्षुत्परीषह एव
दुस्सह इत्यादितस्तमाह14 मूलम्-दिगिछापरिगए देहे, तवस्सी भिक्खु थामवं ॥ण छिंदे ण छिंदावए, ण पए ण पयावए ॥२॥5 * व्याख्या-दिगिंछापरिगते क्षुधाव्याप्ते देहे शरीरे सति तपस्वी षष्ठाष्टमादिविकृतपोऽनुष्ठायी भिक्षुर्मुनिः स्थामवान् संयमबलवान् |
| न छिन्द्यात् स्वयम्, न दयेदन्यैः, फलादिकमिति शेषः, तथा न पचेत् स्वयम्, न चान्यः पाचयेत्, उपलक्षणत्वाच नान्यं छिन्दन्तं ४ पचन्तं वाऽनुमन्येत, एवं न स्वयं क्रीणीयानापि क्रापयेदन्यैन चान्य क्रीणन्तमनुमन्येत, तदेवं क्षुत्क्षामकृक्षिरपि नवकोटिशुद्धमेवाहारं
स्वीकुर्यादिति सूत्रार्थः॥२॥ किञ्च2 मूलम्-कालीपव्वंगसंकासे, किसे धमणिसंतए ॥ मायण्णे असणपाणस्स, अदीणमणसो चरे ॥ ३ ॥
*
*