SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ मूऊम्-महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंघमज्झे । बचराध्यबनसत्रम् । जं भिक्खुणो सीलगुणोववेआ, इह जयंते समणो म्हि जाओ ॥ १२ ॥ ॥२१६॥ __व्याख्या-सर्व 'सुचीर्ण' शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, किमिति यतः 'कतेभ्यो' अर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न 'मोक्षो' मुक्तिरस्ति, ददति हि तानि निजं फलमवश्यमिति भावः । प्राकृतत्वाचेह विभक्ति व्यत्ययः, न च वाच्यं त्वयैवात्र व्यभिचार इत्याह-'अर्थैः' द्रव्यैः ‘कामैश्च' शब्दादिमिः 'उत्तमैः' प्रधानरुपलक्षितः सभात्मा "ममं”ति ममापि "पुण्णफलोववेए"ति अत्र 'उप' 'अप' 'इत' इतिशब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं, ततश्च पुण्यस्य-शुभकर्मणः फलं पुण्यफलं तेनोपपेतो-युक्तः, पुण्यफलोपपेतोऽभूदिति शेषः ॥ १० ॥ ततश्च-'जानासि' अवबुध्यसे यथा त्वमत्मानमिति शेषः, 'हे सम्भूत!' पूर्वभवे सम्भूताभिधान ! 'महानुभाग' बृहन्माहात्म्यं 'महधिक' चक्रवर्तिपदावाप्त्या सातिशयसम्पयुक्तं. अत एव पुण्यफलोपपेतं चित्रमपि जानीहि 'तथैव' तादृशमेव हे राजन् ! । किमित्येवम् ? अत आह-'ऋद्धिः' सम्पत् , 'पुतिः' दीप्तिः 'तस्यापि' जन्मान्तरनाम्ना चित्रामिधानस्य ममापीति भावः, 'चशब्दो' यस्मादर्थे, ततो यस्मात् 'प्रभूता बढी बभूवेति शेषः, गृहस्थभावे ममाप्येवं विधत्वादेवेति भावः ॥ ११॥ यदि तवाप्येवंविधा सम्पदभूचदा | कथं प्रवजितः ? इत्याह-'महार्थरूपा' अनन्तद्रव्यपर्यायात्मकतया बहुर्थस्वरूपा, वचनेनाप्रभृता वचनाप्रभूता-स्वल्पाक्षरेत्यर्थः । ॥२१॥ कासौ १ गीयते इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः अनुलोम-श्रोतुरनुकूलं गीता-कथिता अनुगीता, अनेन श्रोत्र नुकूलैब देशना कार्येति ख्यापितं भवति । केत्याह-नरसङ्गमध्ये, न तु कोणके प्रविश्येति भावः, 'या' गाथां श्रुत्वेति शेषः, 'भि-5॥१६॥ RCMS
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy