SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ I अध्य०१ नवशनिबद्धानीत्यर्थः, त्वया राजन् ! विचिन्तितानि, तद्धेतुभूता-ध्यानाभिध्यानेन कर्माण्यपि तथोच्यन्ते 'तेषां कर्मणां फलं चासो उत्तराध्यपानामविपाकश्च-शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन 'विप्रयोग' विरहम् 'उपागतौ' प्राप्तौ । अयं भावः-यत्तदा त्वया मनिषिद्धेनापि ॥२१५॥ निदानं कृतं. तस्य फलमेतद्यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ॥ ८॥ एवं वियोगहेतुं ज्ञात्वा चक्री पुनः प्रश्नयितुमाह मूलम्-सच्चसोअप्पगडा, कम्मा मए पुरा कडा। ते अज परिभुजामो, किं नु चित्तो वि से तहा? ॥९॥ व्याख्या-सत्यं-मृषाभाषात्यागरूपं, शौचं च-निर्मायमनुष्ठानं, ताभ्यां प्रकटानि-ख्यातानि सत्यशौचप्रकटानि 'कर्माणि' प्रक्रमाच्छुमानुष्ठानानि मया पुराकृतानि यानीति शेषः तानि 'अद्य' अस्मिन्दिने शेषतद्भवकालोपलक्षणश्चैतत् "परिभुञ्जामो"त्ति परिभुञ्जे तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण वेदये । यथाहमिति गम्यते, 'किमिति प्रश्ने, 'नु' इति वितर्के, 'चित्रोपि' चित्रनामापि ? कोर्थो ? भवानपि "से" इति तानि तथा परिभुइते ? अपि तु न परिभुक्ते, भिक्षुकत्वाद्भवतः । तथा च किं तब तानि मया . सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति मूत्रार्थः ॥९॥ इत्थं चक्रिणोक्त स्वस्वरूपं मुनिराह मूलम्-सव्वं सुचिण्णं सफलं नराणं, कडाण कम्माण न मुक्खु अस्थि । अत्थेहिं कामेहि अ उत्तमेहि, आया ममं पुण्णफलोववेए ॥ १० ॥ ॥२१५॥ मूलम्-जाणासि संभूअ ! महाणुभागं, महिड्डीअं पुण्णफलोववेअं। चित्तं पि जाणाहि तहेव रायं!, इड्डी जुई तस्स वि अप्पभूआ॥११॥ nners MARACTER ॥२१५०
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy