________________
A
*
उपराध्य. बनसत्रम् ॥२१॥
|
*
*
B
*
+
--
नाददे दीक्षाम् ॥ ३८१ ॥ प्रामादिषु विहरंस्त, सदलं श्लोकं निशम्य लोकेभ्यः ॥ प्राग्भवबान्धवबोधन-कृते स काम्पील्यनगरम| गात् ।। ३८२ ॥ तत्राराम नाम्ना, मनोरमे संस्थितः स साधुस्तम् ॥ साध श्लोकं श्रुत्वा-रघट्टिकमुखाददोऽवादीत् ॥ ३८३ ॥ ["इमा
णो छडिआ जाई, अनमन्त्रेण जा विणा"] इति तेनोक्तमधीत्या-घट्टिकः श्लोकपश्चिमदलं तत् ॥ गत्वा सपदि नृपाग्रे, श्लोकयुगल| मब्रवीत् सकलम् ॥ ३८४ ॥ स्नेहावेशान्मूच्छा, गतस्ततोऽपतदिलापति रिलायाम् ॥ तच्च प्रेक्ष्यानभ्रा-ऽशनिपातमिवाक्षुमत परिषद ॥ ३८५ ॥ जातेदृशी दशा नः, प्रभोगिरास्येति परिजनः कोपात् ॥ तमथार-घट्टिकं मुहु-रताडयत् पाणिघाताद्यैः॥ ३८६ ॥ न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् । मुक्तः स कोस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ॥ ३८७ ॥ श्लोकमपूरयदपरं. मुनिर्मदरघट्टनिकटभूमिष्ठः ॥ प्रापमहं तु व्यसनं, मुधैव राज्यस्पृहाग्रहीलः ॥ ३८८ ॥ अथ चन्दनरसपूरैः, संसिक्तो व्यक्तचेतनश्चक्री ॥ विज्ञातमुनिवरागम-वृत्तः स्नेहोल्लसच्चित्तः ॥ ३८९ ॥ दत्वारघट्टिकाय, द्युम्नं बहु पारितोषिकं सद्यः ।। सान्त:पुरपरिवारः, सोत्कण्ठोऽगात्तदुद्यानम् ॥ ३९ ॥ [युग्मम् ] नत्वा च तं मुनिवरं, बाष्पजलाप्लुत विलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः ॥ ३९१ ॥ [इह ब्रह्मदत्तहिण्डिमाश्रित्य श्रीउत्तराध्ययनसूत्रनियुक्तौ कश्चिद्विशेषो दृश्ते, स तु तत एवावधार्यः] * इत्युक्तश्चित्र-सम्भूतयोः पूर्ववृत्तान्ताख्यानेन सूत्रत्रयभावार्थः ॥ ३ ॥ तयोमिथः सम्भाषणं तु सूत्रसिद्धमित्यधुनाऽवशिष्यमाणं | तदेव व्याख्यायते। तत्र चक्री यचे तत्सम्बन्धपुरस्सरं सूत्रचतुष्केनाहमुलम् -चकवट्टी महिडीओ, बंभदत्तो महायसो। भायरं बहमाणेणं, इमं वयणमब्बवी ॥४॥
, भूकान्तः । २ पृथ्व्याम् ।
+
+
RRC
5
॥२१३॥
॥२१३॥
-%
+%