________________
अध्य
उचराध्यपनसूत्रम् ॥२१॥
ROCESARICS
तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे ॥ वरधनुरपि नन्दाहा-मुदुवाह सुबुद्धिसचिवसुताम् ॥ ३५५॥ अथ तौ तत्र | वसन्तौ, प्रथितौ पृथ्व्यां गुणैरजायेताम् ॥ वाणारसी प्रति ततः, सोत्साहौ प्रास्थिषातां च ।। ३५६ ॥ आयान्तं ब्रह्मसुतं, ज्ञात्वा वाणारसीपतिः कटकः ।। अभ्येत्य सोत्सवं निज-गृहमनय राजमिव ॥ ३५७ ॥ निजतनयां कटकवती, चतुरङ्गं 'कटकमुत्कटं कटकः॥ प्रकटं विसङ्कटमदा-ढूनं च तस्मै मुदितचेताः ॥३५८॥ अथ तताहूता, धनुसचिव-कणेरुदत्त-चम्पेशाः॥ भगदत्त-चन्द्रसिंहा-दयः परेप्याययुर्भूपाः॥ ३५९ ॥ वरधनुमथ सेनान्यं, कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं | प्रास्थित, दीर्घ दीर्घायने नेतुम् ।। ३६० ॥ दीर्घप्रहितो दूतो-ऽथागत्यैवं जगाद कटकादीन् ॥ दीर्पण समं सख्यं, त्यक्तुं युक्तं न वः प्राच्यम् ॥ ३६१ ॥ ते प्रोचुर्ब्रह्मयुताः, पञ्च वयस्याः पुरा भवाम वयम् ॥ ब्रह्मणि तु गते स्वर्ग, मैत्री प्राग् दीर्घ एव जहौ | ॥ ३६२ ॥ यह्मणोपि पुत्रे, राज्ये च त्रातुर्पिते दीर्घः॥ चिरमकृत कर्म वैशंस-मनुतिष्ठति नान्त्यजोपि हि तत् ! ॥ ३६३॥ | तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ॥ ३६४ ॥ काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणाम् ॥ सैन्यै रुरोध परितो, नीरैर्नीरधिरिव द्वीपम् ॥ ३६५ ॥ चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे ॥ प्रव्रज्य तपस्तीनं, विधाय निवृत्तिमगात्क्रमतः ॥ ३६६ ।। दीर्घोपि पुराभिरगा-द्रणार्थमवलम्ब्य साहसं सबलः ।। युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ॥ ३६७ ॥ भनमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योद्ध
, सैन्यम् । २ विशिष्टः सङ्कटो यस्मात् जेनाथी मोटुं संकट-भय थाय इति भा० । ३ मारीनाखवामाटे इति भा० । ४ करम् । ५ चाण्डाकः । ६ सयामसज्जः ।
HTTAR+
॥२१॥
॥११॥