SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ न्या पनपत्रम् ॥२०६॥ 4 ६|| जगौ नृपभूः ॥ २८० ॥ साख्यन्मगधपुरे मम, वसति पितृव्यो धनावहः श्रेष्ठी॥ स हि कर्ता प्रतिपत्ति, प्रचुरां तत्चत्र गम्यमितः ॥ २८१ ।। इति रत्नवतीवचना-त्सुहृदा सतेन वाहयन् वाहान् ॥ प्रापाटवीं कुमारः, कौशाम्बीविषयमुल्लध्य ॥ २८२ ॥ तत्र सुकण्टक-कण्टक-सञौ चौराधिपौ प्रबलसैन्यौ ॥ तं रुरुधतुरपहर्तु, रथादि विशिखान् प्रवर्षन्तौ ॥ २८३ ॥ चापमुपादाय ततः, प्रहरनृपनन्दनः शरप्रकरैः॥ तदस्युवलमनाशय-दहपतिस्तम इवांशुभरैः ॥ २८४ ॥ तमथोचे सचिवसुतः, श्रान्तोसि रणेन तद्रथेऽ त्रैव ।। स्वपिहि क्षणं ततः सो-ऽप्यशेत सह रत्नवत्या द्राग् ॥ २८५ ॥ प्रातश्चैको तटिनी, प्राप्यातिष्ठन् हयाः वयं श्रान्ताः । तत्र च जागरितो ना-पश्यत्सुहृदं रथे नृपः ॥ २८६ ॥ भावी जलाय गत इति, महुर्मुहुरशब्दयत्कुमारस्तम् ॥ न त्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥ २८७ ॥ व्याकुलचेताः स ततो, वाष्पजलाविलशा दिशः पश्यन् ॥ रक्ताभ्यक्तमपश्यत्, खन्दनवदनं नरेन्द्रसुतः॥ २८८ ॥ हाऽहं हत इति जल्पं-स्ततोऽपतन्मृञ्छितो रथोत्सङ्गे ॥ अधिगतसञ्ज्ञस्तु भृशं, व्यलपत्कुत्रासि ? मित्रेति | ॥ २८९ ॥ तमथाख्यद्रनवती, प्रभो! सखा ज्ञायते न हि मृतस्ते ॥ तत्तस्येदममङ्गल-मुचितं वाचापि नो कर्तुम् ।। २९० ॥ नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गतास्तु शुद्धि, तस्य नरैः कारयिष्यामः ॥२९१ ॥ परमिह गहने स्थातुं, नो चिरमुचितं यमोपवनकल्पे ॥ इति तद्राि स तुरगा-चुदनगादग्रतो व्यग्रः ॥ २९२ ।। उल्लङ्घयानुल्लद्ध्या -मपि तामटवीं ययौ स मगधानाम् । सीमग्राम भवतति-मतीत्य मोक्षं मुमचरिव ॥ २९३ ॥ तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ॥ पुरुषोतमोयमिति हृदि, निरणैषीगृहमनैषीच ॥ २९४ ॥ किं भृशमुद्विग्न इवा-सीत्यथ तेनोदितो वदन्नृपः ॥ चौरैः सह कुर्वन् रण १ सारथिना । २ अश्वान् । ३ पारात् । ४ विनकरः । ५ किरणसमुहैः । ६ रुधिरलिप्तम । • रथाप्रमागम् । 45 ॥२०६॥ २०
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy