SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ कन अपर उचराध्यबनसूत्रम् ॥२०॥ E ROCESSOR तत्र पपीतलक्षं, चरणावृधरणमपश्यतां धनिनोः॥ बुद्धिल-सागरदत्ता-मिधयोः शस्त्रायिताङ्गिनखम् ॥ २३६ ॥ तत्र च | बुद्धिलचरणा-युधेन जात्येपि कुकुटेऽन्यस्मिन् ॥ भग्ने वरधनुरसम-असाऽसहः सागरमदोऽवक् ॥२३७॥ जात्योपि कुक्कुटोसौ, भग्नस्तव सागरामुनापि कथम् ? ॥ तद्यदि वदसि तदाह, विलोकयाम्येनमादाय ।। २३८ ॥ सोथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एव पश्येदम् ॥ मानापगमो व्यथयति, मामन्तन तु धनापगमः ॥ २३९ ॥ वरधनुरथ तं पश्यन् , ददर्श तच्चरणयोरयःसूचीः ।। | तच्च ज्ञात्वा तं द्रुत-मुपेत्य बुद्धिल इति प्रोचे ॥२४०॥ यदि मे छम न वक्ष्यसि, लक्षार्द्ध तव तदा प्रदास्येऽहम् ॥ तेनेत्युक्तो | बरधनु-रूचे तद्रहसि भूपभुवे ॥ २४१ ॥ सूचीः कृष्ट्वा स तत-स्तं सागरकुक्कुटेन योजितवान् । अपमूचिकं च बुद्धिल-कुक्कुटमपरो द्रुतमजैषीत् ॥ २४२॥ तुष्टोथ सागरस्ता-वारोप्य रथं खमन्दिरमनपीत् ॥ खगृह इव तद्गृहे ता-वपि तस्थतुरुचितलीलामिः ॥२४३ ॥ बुद्धिलदासस्तत्रा-गतोन्यदा वरधनुं रहसि नीत्वा ॥ प्रोचे यत्तव कथितं, लक्षार्द्ध बुद्धिलेन तदा ॥ २४४ ॥ तत्स्थाने तेनासौ, हारः प्रहितोस्ति चतुरैयुतमूल्यः । इत्थं प्रोच्य करण्डं, दत्वा च यथागतः सोगात् ।। २४५॥ वरधनुरपि गत्वा तन्निवेद्य | निखिलं करण्डमुद्घाट्य ।। मौक्तिकरुचिजितसितरुचि-मदीदृशन्नृपभुवे हारम् ॥ २४६ ।। हारे हारिणि तत्राव-लम्बितं लेखमात्म| नामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥ २४७ ॥ को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भवी ॥ तेनेत्युदितो | गाढो-त्सुकोभवद्भूपभूर्ज्ञातुम् ॥ २४८ ॥ लेख तमथो वरधनु-कन्मुद्रयति स्म नलिँनमिव तरणिः ॥ आर्यामेकां लिखितां, तत्र दद। शालिपङ्क्तिमिव ॥ २४९॥ सा चेयं-"यद्यपि जनोर्थ्यतेसौ, जनेन संयोगजनितयत्नेन ॥ त्वामेव हि रत्नवती, तथापि मानयि , ताम्रचूढयुद्धम् । २ चत्वारिंशत् सहस्त्रमूल्यः । ३ सितरुचिः चन्द्रः । ४ कमल मिव अर्कः । -G+% A ॥२०॥ cate
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy