________________
धराध्ययनसूत्रम्
॥२०२॥
॥१०२॥
उद्ध व्यसनाब्धे - जननीं काम्पील्यनगरमगाम् ॥ २२० ॥ तत्र च कपालिरूपं कृत्वाटं श्वपचपाटके कपटात् ॥ तस्मिन् भ्रमणनिदानं, लोकैः पृष्टोऽब्रवं चैवम् ॥ २२९ ॥ मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र ॥ तत्रैवमटन् मैत्रीमकार्षमारक्षकेण समम् ।। २२२ ।। कुरुतेऽभिवादनमसौ, कौण्डीन्यमहाव्रती मृतसुहते ।। इत्यन्यदा च जननी-मवोचमारक्षकमुखेन ॥ २२३ ॥ गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य ॥ तद्भक्षणेन साजनि निश्रेष्टा काष्टमूर्त्तिरिव ॥ २२४ ॥ आरक्षकोथ राज्ञे, गत्बोचे तां मृतां ततो नृपतिः॥ तां संस्कर्त्तु प्रैषी - भृत्यानथ तेपि तत्रागुः ॥ २२५ ॥ सम्प्रति संस्कारेऽस्याः, कृते महान् माव्युपद्रवो भवताम् ॥ नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्भीताः || २२६ || आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदनुष्याः ॥ कुणपेन लक्षणवता, मन्त्रमहं साधयाम्येकम् ॥ २२७ ॥ तत्प्रतिपन्नेन समं तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवनं, गुरुमण्डलमालिखं दम्भात् ॥ २२८ ॥ शून्यं विधिं च कश्चिद्विधाय दातुं बलिं पुरसुरीणाम् ॥ प्रेष्यारक्षं गुटिका - मार्पयमपरामहं मातुः ।। २२९ ।। अथ तत्क्षणमुत्तस्था-वपगतनिद्रेव लब्धसन्ज्ञा सा | आवेद्य स्वं तामथ, निवार्य रुदतीं ततोऽचलयम् ॥ २३० ॥ मुक्त्वा कच्छग्रामे, | तातसुहृद्देवशर्मवेश्मनि ताम् || त्वामन्वेष्टुं भ्राम्य- बिहागमं भाग्ययोगेन || २३१ ॥ नाथ ! त्वयानुभूतं, सुखदुःखं यत्ततः परं वद तत् । तेनेत्युक्तोवादी -स्वं वृत्तं ब्रह्मदत्तोपि ॥ २३२ ॥ अथ कोप्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे ॥ युष्मत्समरूपाङ्कित - पटयुगदर्शनपरा बुवते ॥ २३३ ॥ ईदृशरूपौ पुरुषौ दृष्टौ वापीति तनिशम्याहम् ॥ कथयामि वामथ युवां, यथोचितं तनुतामात्महितम् || २३४ ।। प्रोच्येत्ति गते तस्मि - नश्यन्तौ तावरण्यमध्येन ॥ क्रमयोगात्कौशाम्बी पुर्या उपवनमुपागताम् ॥ २३५॥
१ बीजपुरम् । २ शबेन ।
अध्य०१३
॥२०२॥