________________
तुभ्यमीश ! तातेन ॥ उदितस्तयेति मुदित - चिक्रीड तया समं नृपभूः ॥ २०५ ॥ पल्लीशः सोन्येद्यु- ग्रामं हन्तुं जगाम सैन्ययुतः ॥ तेन सह भूपभूरपि, गत्वाब्जसरस्तटे तस्थौ ॥ २०६ ॥ ग्रामेथ लुण्ठ्यमाने, पपात वरधनुरुपेत्य तत्क्रमयोः ॥ आलम्ब्य च तत्कण्ठं, विमुक्तकण्ठं रुरोदोच्चैः ॥ २०७ ॥ ब्रह्मात्मजेन वचनै - स्मृतद्रवसोदरैरथाश्वास्य ॥ पृष्टो वरधनुरूचे, स्ववृत्तमिति गद्गदैर्वचनैः ।। २०८ || मुक्त्वा तदा वटाध-स्त्वामम्भोर्थं गतोहमन्जेसरः ॥ किञ्चिदपश्यं तज्जल-मब्जदलपुटेन जगृहे च ॥ २०९ ॥ वलितश्च | दीर्घ पुरुष - रुदायुधैर्हत हतेति जल्पद्भिः ॥ सनद्वै रुद्धोऽहं हंसः काकैरिव कठोरैः ।। २१० ॥ क १ ब्रह्मदत्त इति तैः, पृष्टश्चात्र महं | न वेति । गाढमथ ताडितस्तै-रवदं व्याघ्रेण जग्ध इति ।। २११ ।। दर्शय तं देशमथे --त्युक्तो भ्राम्यन्नितस्ततो दम्भात् ।। त्वदर्शनपथमेत्य, व्यधां पलायनकृते सञ्ज्ञाम् ॥ २१२ ॥ स्वमुखे तु परिव्राजक - दत्तां गुटिकां ततोऽक्षिपं क्षिप्रम् ॥ तस्याः प्रभावतो गत चेष्टस्त्यक्तोऽस्मि मृत इति तैः ॥ २१३ ।। तेषु च गतेषु दूरं, कृष्ट्वा गुटिकां मुखाश्वदर्थमटन् || ग्रामं कमपि गतोऽहं कञ्चिदपश्यं परिव्राजम् || २१४ ॥ सोप्यवददवनतं मां, वसुभागाह्वोस्मि तव पितुर्मित्रम् ॥ तद्द्ब्रूहि वरधनो ! त्वं कुत्रास्ति ब्रह्मदत्त इति ॥ २१५ ॥ विश्वस्य तस्य विश्वां त्वद्वार्त्ती सूनृतामहमवोचम् ॥ दुःखाविष्टः स ततः पार्श्वत्यं वृत्तमित्यूचे ॥ २१६ ॥ दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शबमेकम् ॥ तां सत्रगां सुरङ्गां, तुरगपदानि च पुरस्तस्याः ॥ २१७ ॥ नष्टौ युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै ॥ प्रत्याशमश्ववारान् युष्मनिग्रहकृते प्रैषीत् ॥ २१८ ॥ नष्टो धनुरिति जननीं तवाक्षिपत् श्वप॥२०१॥ ४ चपाट के दीर्घः ॥ सा नरकावास इवा-नुभवति तत्र व्यथाः प्रचुराः ॥ २१९ ॥ तेनोदन्तेनोच्चै - र्दुःखोपरिजायमानदुःखार्त्तः ॥
१ चरणयोः | २ जलार्थम् । ३ कमलसरोवरम् । ४ सर्वाम् । ५ सत्याम् । ६ पश्चाद्भवम् । ७ वृत्तान्तेन ।
उपराज्य
धनसूत्रम् ॥२०१॥
अध्य०१३
॥२०१॥